SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ धिगहो भन्दभाग्योऽसि मुधा मनोर: पानिमम सवेश्माऽन्यत्र प्रभुरपारयत् ॥ ३६३ ॥ पारयित्वा प्रभुरपि विहरनन्यतो ययौ । तत्रोधाने पार्थशिष्यः केवल्यथ समाययौ ॥ ३६४ ॥ राजा लोकश्च तं गत्वा पप्रच्छ भगवन्निह । नगर्या को महापुण्यसंभारोपार्जको जनः ।। ३६५ ॥ जीणश्रेष्ठीति सोऽप्याख्यल्लोकोऽप्यूचे कथं ह्यसौ । न स्वामी पारितोऽनेनाऽभिनवेन हि पारितः ॥ ३ ॥ वसुधाराप्यभिनवश्रेष्ठिनो मन्दिरेऽपतत् । स कथं न महापुण्यसंभारोपार्जकः प्रभो ! ॥ ३६७ ॥ कंवल्याख्यद्भावतोऽर्हञ्जिनदत्तेन पारितः । तथोपायच्युते कल्पे जन्मानेन भवादितः ॥ ३६८ ॥ ताग्भावस्तदाऽयं चेन्नाश्रोग्यदू दुन्दुभिध्वनिम् । तदा ध्यानान्तरगतः प्राप्स्यत्केवलमुज्वलम् ॥ ३६९ ॥ शुद्धभावविहीनेनाऽभिनवश्रेष्ठिना पुनः । प्राप्तमहत्पारणस्य वसुधारैहिकं फलम् ।। ३७० ॥ भत्त्यभक्तिविहीनं तदहत्पारण फलम् । आकर्ण्य विस्मितो लोकः स्थानं निजनिजं ययौ ॥ ३७१ ॥ इतश्च नगरपामाकरद्रोणमुखादिषु । विहरन भगवान् वीरः सुंसुमारपुरं ययौ ॥ ३७२ ॥ तत्रोधानेऽशोकखंडेयोऽशोकद्रोः शिलातले । कृताष्टमप्रभुभेजे प्रतिमामेकरात्रिकीम् ॥ ३७३ ॥ इतश्चात्रय भरते विन्ध्यपादतलस्थिते । विभेले सनिवेशेऽभूद्धनवान् पूरणो गृही ॥ ३७४ ॥ निशीथे सोऽन्यदा दध्यो नूनं पूर्वभवे मया । कृतं महत्तपो येन श्रीरियं मान्यता च मे ॥ ३७॥ मेले CHU AAHARASARAN
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy