________________
नित्यमित्याशया नाथं चतुर्मासीमसेवत । तदन्त्याहे निमन्त्र्येशं स ययौ निजवश्मनि ॥ ३५० ॥ पूर्वसंसाधिनामात्मविहितं न बरहालय प्राशुपान्येषणीयानि वरभोज्यान्यचिन्तयत् ॥ ३५१ ॥ जिनदत्तो जिनमार्गदत्तदक प्रांगणे स्थितः । दध्यावतानि भोज्यानि दास्यामि स्वामिने खलः ।। ३५२ ॥ धन्योऽस्मि खलु यस्यौकस्यहन् स्वयमिहेष्यति । करिष्यति पारणं च संसारार्णवतारणम् ॥ ३५३ ।। आगच्छतश्च नाथस्य गमिष्याम्येष संमुखम् । त्रिश्च प्रदक्षिणीकृत्य वन्दिष्ये तत्पदाम्बुजे ।। ३९४ ॥ अपुनर्जन्मने जन्म मम चेदं भविष्यति । मोक्षाय दर्शनमपि किं पुनः पारणं प्रभोः॥ ३५५ ॥ एवं च चिन्तयन यावत्स तस्थौ शुचिमानसः । तावज़गामाऽभिनवश्रेष्ठिनो धामनि प्रभुः ॥ ३५६ ।। स श्रेष्ठी श्रीमदोद्ग्रीवश्चेटी मिथ्यागादिशत् । दत्त्वा भिक्षामसौ भिक्षुर्मश्नु भद्रे ! विसृज्यताम् ॥३५॥ दारुहस्तकहस्ता सा कुल्माषान् समुपानयत् । चिक्षेप च जगहेतुः पाणिपात्रे प्रसारिते ॥ ३५८ ॥ नाडितो दुन्दुभिर्देवैश्वेलोरक्षेपश्च निर्ममे । वसुधारा पुष्पगन्धाभ्भसां वृष्टिश्च तत्क्षणात् ॥ ३५९ ।। लोकैश्च पृष्टोऽभिनवश्रेष्ठी माय्येवमब्रवीत् । स्वयं मया पायसेन पारणं कारितः प्रभुः ॥ ३६० ॥ अहो दानं सुदानं चेत्याकर्ण्य दिविषद्ध्वनिम् । लोको राजा चाभिनवश्रेष्ठिनं तुष्टुवुर्मुहुः ।। ३६१ ॥ स्वाम्यागमनचिन्तावाञ्जीर्णश्रेष्ठी तथा स्थितः । दिविषदुन्दुभिध्वानमाकण्येवं व्यचिन्तयत् ॥ ३६२ ।। 'दन्ताहे CI. ॥ २ ॥
॥११८॥