SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ C अयमस्यापि देवस्य पूज्यः कोऽपीति सर्वथा । चक्रे न युक्तमस्माभिर्यवस्याऽतिक्रमः कृतः ॥ ३३७ ॥ इति ब्रुवाणास्ते पौरा विस्मयाऽऽनन्दधारिणः । महिमानं प्रमोश्चक्रुः कौशाम्बी च ययौ प्रभुः ॥ ३३८ ॥ तत्राऽन्दू सविमानौ जिनेन्द्र प्रतिमास्थितम् । भक्त्याऽभ्येत्य ववन्दाते सुयात्राप्रश्नपूर्वकम् ॥ ३३९ ॥ क्रमाच विहरन् स्वामी ययौ वाराणसी पुरीम । अभ्येत्य तत्र शक्रेण ववन्दे मुदितात्मना ।। ३४०॥ ततो राजगृहे गत्या स्थितं प्रतिमया प्रभुम् । ईशानेन्द्रोऽनमनत्तया सुयात्राप्रश्नपूर्वकम् ॥ ३४१ ॥ गतोऽथ मिथिलापुर्या स्वामी जनकभूभुजा । धरणेन्द्रेण चाऽपूजि प्रियप्रश्नविधायिना ॥ ३४२ ॥ नतो विहरमाणोऽगाद्वैशाली नगरी प्रभुः । तत्र चैकादशो वर्षाकालो ब्रतदिनादभूत् ॥ ३४३ ॥ तस्यां च समरोद्याने बलदेवनिकेतने । चतुर्मासक्षपणभृत्तस्थौ प्रतिमया प्रभुः ॥ ३४४ ॥ भूतानन्दो नागराजस्तत्रैत्याऽवन्दत प्रभुम् । आसन्नं केवलज्ञानं समाख्याय जगाम च ।। ३४२॥ परमश्रावकस्तत्र जिनदत्ताभिधोऽवसत् । दयावान् विश्रुतो जीर्णश्रेष्ठीति विभवक्षयात् ॥ ३४६ ॥ तत्रोद्याने बलदेवायतने स गतस्तदा । जिनदत्तो जिनपतिं ददर्श प्रतिमास्थितम् ॥ ३४७ ।। छद्मस्थ एष सर्वज्ञोऽस्तीति निश्चित्य स प्रभुम् । भत्तया ववन्दे परया चित्ते चैवमचिन्तयत् ।। ३४८ ॥ उपोषितोऽसौ भगवानद्यास्ति प्रतिमाधरः । श्वः कर्ता पारणं चेन्मे मन्दिरे सुन्दरं तदा ॥ ३४९॥ RIMARIYAR ॥११७
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy