________________
चतुर्थः सर्गः
तत्र विद्युत्कुमारेन्द्रो नाम्रा हरिरिति प्रभुम् । एत्य प्रदक्षिणीकृत्य प्रणम्यैवमवोचत ॥ ३२३ ॥ उपसर्गास्त्वया नाथ ! ते सोढा यः श्रुतैरपि । अस्मादृशा विदीयन्ते वज्रादप्यतिरिच्यसे ॥ ३२४ ॥ स्तोकनाप्युपसर्गेण धातिकर्मचतुष्टयम् । हनिष्यस्यचिरादेव केवलं चार्जयिष्यसि ॥ ३२५॥ इत्युदित्वा भगवन्तं नमस्कृत्य च भक्तितः । हरिर्विद्युत्कुमोरन्द्रो ययौ निजनिकतनम् ॥ ३२६ ॥ भगवानपि निर्गत्य नगरी श्वेतवीं ययौ । विद्युदिन्द्रो हरिसहस्तवैत्याऽवन्दत प्रभुम् ॥ ३२७ ॥ आख्याय सोऽपि हरिवज़गाम निजमाश्रयम् । नाथोऽपि गत्वा श्रावस्त्यां तस्थौ प्रतिमया स्थिरः ॥ ३२८ ॥ तस्यां पुर्यां दिने तस्मिन्महाविच्छर्दपूर्वकम् । प्रारब्धोऽभूवनैः स्कन्दरथयात्रामहोत्सवः ॥ ३२९ ॥ प्रतिमास्थमतिक्रम्य भगवन्तं पुरीजनाः । स्कन्दं प्रति ययुश्चैत्यपूजापटलिकाभृतः ।। ३३०॥ । लपयित्वा पूजयित्वा स्कन्दस्य प्रतिमा जनाः । रथमध्यारोपयितुमसज्जन्त यथाविधि ॥ ३३१ ।। तदा चाचिन्तयच्छक्रः कथं विहरति प्रभुः । ददर्श चावधेवार तथास्थं तांश्च नागरान् ॥ ३३२ ॥ कथं नाथमतिक्रम्य निर्विवेको जनो ह्ययम् । स्कन्दपूजां करोतीति सेव्यस्तत्राययौ हरिः ॥ ३३३ ॥ शक्रेणाधिष्ठिता स्कन्दप्रतिमा प्रतिमास्थितम् । भगवन्तं प्रत्यचालीयंत्रपांचालिकेव सा ॥ ३३४ ।। अहो स्कन्दकुमारोऽयं रथमारोक्ष्यति स्वयम् । इत्यूचुर्नागरा यावत्तावत् सा स्वामिनं ययौ ॥ ३३५ ॥ सा त्रिः प्रदक्षिणीकृत्य भगवन्तं ननाम च । उपासितुं च प्रारेभे निषण्णा पूधिवीतले ॥ ३३६ ॥