________________
अयं हि कर्मचण्डालः पापः संगमकामरः । दृश्यमानोऽपि पापाय तद् द्रष्टुं नैष युज्यते ॥ ३१०॥ बहलेलापराद्धं हि गावातील गावर्णितः । नास्मभ्यमपि कि भीतो भवाद्रीतो न यद्ययम् ॥३११॥ अर्हन्तो नान्यसाहाय्यात्तप्यन्ते तप इत्यहम् । तयोपसर्गकालेऽपि ना, पापमशिक्षयम् ॥ ३१२॥ अतः परमिह तिष्ठन्नस्माकमपि पाप्मने । निर्वासनीयस्तदसौ कल्पावस्मात्सुराधमः ॥ ३१३ ॥ इत्युदित्वा वज्रपाणिर्वत्रेणेव शिलोच्चयम् । जधान वामपादेन सुराधमममर्षणः ॥ ३१४ ॥ । पर्यस्यमानो विविधायुधैर्माधवनर्भरैः । आक्रुश्यमानस्त्रिदिवस्त्रीभिर्मोटितपाणिभिः ॥ ३१५ ॥ सामानिकैहस्यमानो यानकाख्यविमानगः । स शिष्टकार्णवायुष्को मेरुघलां सुरो ययौ ॥ १६ ॥
(युग्मम् ) महिष्यः संगमकस्य शक्रमेवं व्यजिज्ञपन् । स्वनाथमनुगच्छामस्त्वदादेशो भवेद्यदि ॥ ३१७ ॥ अनुगन्तुं संगम दीनास्या अन्वमस्त ताः । अवारयत्परीवारमशेषमपि वासवः ॥ ३१८ ॥ द्वैतीयिकेऽथ दिवसे तत्र गोचरचर्यया। पाविशद्गोकुलवरे पारणेच्छुर्जगद्गुरुः ॥ ३१९ ॥ सत्रैका भक्तितो वत्सपालकस्थविर प्रभुम् । कल्पेन परमानेनोषितेन प्रत्यलाभयत् ॥ ३२० ॥ चिराज्जातेन भगवत्पारणेन प्रमोदिनः । चक्रिरे पञ्च दिव्यानि तत्र सन्निहिताः सुराः ॥ ३२१ ॥ ततश्च विहरन स्वामी पुरीमालभिकां ययौ । तस्थौ प्रतिमया तत्रालेख्यस्थ इव सुस्थिरः॥३२२ ॥