________________
I
सत्यप्रतिज्ञस्त्वं भ्रष्टप्रतिज्ञोऽहमसौ पुनः । न व्यधायि मया साधु तत्क्षमस्व क्षमानिधे ! ।। २९९ ।। यां ग्रास्याम्युपसन्नोऽहमुपसर्गपराङ्मुखः । ब्रज त्वमपि निःशंको ग्रामाकरपुरादिषु ॥ ३०० ॥ ग्रामेषु विश भिक्षायै सुंश्वाहारमदृषितम् । भिक्षादोषा अपि पुरा विहितास्ते मयैव हि ॥ ३०९ ॥ स्वाम्यवोचत नश्चिन्तां मुञ्ज संगमकामर ! | कस्याप्यधीना न वयं विहरामो निजेच्छया ॥ ३०२ ॥ इत्युक्तवन्तं श्रीवीरं प्रणम्य स सुराधमः । सानुतापः प्रचचाल पुरुहूतपुरीं प्रति ॥ ३०३ ॥ इतश्च कालं तावन्तं सुराः सौधर्मवासिनः । निरानन्दा निरुत्साहा उद्विप्राञ्चावतस्थिरे ॥ ३०४ ॥ शक्रोऽपि मुक्त नेपथ्यांगरागोऽत्यन्नदुःखितः । संगीतकादिविमुखो मनस्येवमचिन्तयत् ॥ ३०५ ॥ इयतामुपसर्गाणां निमित्तमभवं ह्यहम् । मया स्वामिप्रशंसायां कृतायां सोऽकुपत्सुरः ॥ ३०६ ॥ अत्रान्तरे संगमकः पापपंकमलो मसः । प्रणष्टकान्तिप्राग्भारोऽम्भःस्पृष्ट इव दर्पणः ॥ ३०७ ॥ अष्टप्रतिज्ञो मन्दाक्षमन्दीभूताक्षिपंकजः । देवराजाधिष्ठितां तां सुधर्मामाययौ सभाम् ||३०८|| ( युग्मम्) शक्रः संगमकं दृष्ट्वा सग्रो भूत्वा पराङ्मुखः । इत्यूचे भोः सुराः ! सर्वेऽप्याकर्णयत मद्वचः ॥ ३०९ ॥
१ तास्यपं ।
टि.- मन्दाक्षः लज्जा
चतुर्थः
सर्गः
॥ ११४ ॥