SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ तां च देवीमसौ मायां मन्यमानो महामनाः । न मुमोच्च निभानमभिग्रहताग्रहः ।। २४७ ॥ ताडंकहारकेयूरकिरीटयोतिताम्बरः। तत्संहृत्य विमानस्थः स पुरोऽस्थादुवाच चा ।। २४८ ॥ महर्षे ! नव तुष्टोऽस्मि सत्त्वेन तपसौजसा । प्राणानपेक्षभावेनारब्धनिर्वहणेन च ।। २४९ ॥ पर्याप्तं तपसाऽनेन शरीरलेशकारिणा । ग्रूहि याचस्व मा कार्षीः शंकां यच्छामि किं तव ? ॥ २२० । इच्छामात्रेण पूर्यन्ते यत्र नित्यं मनोरथाः । किमनेनैष देहेन त्वां स्वर्ग प्रापयामि तम् १ ॥ २५१ ।। अनादिभवसंरूद्धकर्मनिर्मोक्षलक्षणम् । एकान्तपरमानन्द मोक्षं या त्वां नयामि किम् ? ॥ २२२ ॥ अशेषमंडलाधीशमौलिलालितशासनम् । अथवाऽत्रैव यच्छामि साम्राज्यं प्राज्यमृद्धिभिः ॥ २५३ ॥ इत्थं प्रलोभनावाक्यैरक्षोभ्यमनसि प्रभो । अमाप्तप्रतिवाक् पापः पुनरेवमचिन्तयत् ॥ २५४ ॥ मोचीकृतमनेनैतन्मम शक्तिविजृम्भितम् । तदिदानीममोघं स्याद्ययेकं कामशासनम् ॥ २५५ ।। यतः कामास्त्रभूताभिः कामिनीभिः कटाक्षिताः। दृष्टा महापुमांसोऽपि लुम्पन्तः पुरुषव्रतम् ॥ २६६ ॥ इति निश्चित्य चित्तन निर्दिदेश सुरांगनाः । तद्विभ्रमसहायान् षट् प्रायुक्त स ऋतूनपि ॥ २५७ ॥ कृतप्रस्तावना मत्तकोकिलाकलकूजितैः । कंदर्पनाटकनदी वसन्तश्रीरशोभत ॥ २८ ॥ मुखवासं सज्जयन्ती विकसन्नीपरेणुभिः । सैरन्ध्रीव दिग्वधूनां ग्रीष्मलक्ष्मीरजुभ्भत ॥ २९ ॥ १ वाक्योऽयं पु ८, ॥ ॥११०॥
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy