SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ तेनापि खरवातेनाऽपूर्णकामो विनिर्ममे । घुसत्कुलकलकोऽसौ द्राक् कलंकलिकाऽनिलम् ॥ २३४ ॥ भूभृतोऽपि भ्रमयितुमलंकर्मीणविक्रमः । भ्रमयामास चस्थमृपिंडमिव स प्रभुम् ॥ २३ ॥ भ्रम्यमाणोऽर्णवावर्तेनेव तेन नभस्वता । तदेकतानी न ध्यानं मनागपि जहाँ प्रभुः ॥ २३६ ॥ वज्रसारमनस्कोऽयं बहुधापि कर्थितः । न क्षुभ्यति कथमहं भग्नाग्र्यामि तां सभाम् ॥ २३७ ॥ तदस्य प्राणनाशेन ध्यान नश्यति नान्यथा । चिन्तयित्वेति चक्रे स कालचक्र सुराधमः ॥ २३८ ॥ आहाय तदयोभारसहस्रघटितं ततः । उद्दधार सुरः शैलं कैलासमिव रावणः ॥ २३९॥ पृथिवीं संपुटीकर्तुं कृतं मन्ये पुटान्तरम् । उत्पत्य कालचक्रं स प्रचिक्षेपोपरि प्रभोः॥ २४॥ ज्वालाजालैरुच्छलनिर्दिशः सर्वाः करालयत् । तत्पपात जगद्भर्तौनल इवार्णवे ॥ २४१ ।। कुलक्षितिघरक्षोदक्षमस्यास्य प्रहारतः। ममजाऽऽजानु भगवानन्तर्वसुमतीतलम् ॥ २४२ ॥ एवं भूतेपि भगवानशोचदिदमस्य यत् । तितारयिषवो विश्वं वयं संसारकारणम् ॥ २४३ ॥ कालचक्रहतोऽप्येष प्रपेदे पंचतां न यत् । अगोचरस्तवस्त्राणामुपायः क इहापरः॥२४४ ॥ अनुकूलरुपसर्गः क्षुभ्यधदि कथंचन । इति बुद्ध्या विमानस्थः स पुरोऽस्थादुवाच च ॥२४॥ सिद्यः प्रकाशमानाशं क्रोशस्खगकुलाकुलम् । प्रातःकालमकालेऽपि दर्शयामास दुष्टधीः ॥ २४६ ॥ १ "पाट्य D. M. ॥ २ मुरश्चकै तानाशु त्रिजगद्गुणे: L. 4. ॥ ३ ॥ एञ्चिबान्तर्गताः यः श्लोकाः न सन्ति C D प्रत्योः ।। ०१॥
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy