________________
दंष्ट्राभिर्वज्रसाराभिर्नखरैः शूलसोदरैः । अव्ययं व्यापिपर्ति स्म व्याघ्रो भुवनभर्तरि ॥ २२९ ॥ तत्र विच्छायां प्राप्ते दवदग्ध इव द्रुमे । सिद्धार्थराजरूपं स विचक्रे विदुषाधमः ॥ २२२ ॥ किमेतद्भवता तात प्रक्रान्तमतिदुष्करम् । प्रव्रज्यां मुञ्च माऽस्माकं प्रार्थनामवजीगणः ॥ २२३ ॥ वार्धके मामशरणं त्यक्तवान्नन्दिवर्धनः । विकृता त्रिशला चैवं विललाप मुहुर्मुहुः ॥ २२४ ॥ युग्मम् ) ततस्तयोर्विलापैरप्यलिप्तमनसि प्रभौ । आवासितं दुराचारः स्कन्धावारमकल्पयत् ।। २२५ ॥ तन्त्रानासाथ दृषदं सूदः सादर ओदने । चुलीपदे प्रभोः पादौ कृत्वा स्थालीं न्यवेदयत् ॥ २२६ ॥ तत्कालं ज्वालितस्तेन जज्वाल ज्वलनोऽधिकम् । पादमूले जगद्भर्तुर्गिरेरिव दवानलः ॥ २२७ ॥ तप्तस्यापि प्रभोः स्वर्णस्येव न श्रीरहीयत । ततः सुराधमा के पक्कणं दारुणकणम् || २२८ || vaणोऽपि प्रभोः कण्ठे कर्णयोर्भुजदण्डयोः । जंघयोश्च क्षुद्रपक्षिपंजराणि व्यलंययत् ।। २२९ ।। खगैश्चुनखाघातैस्तथा दद्रे प्रभोस्तनुः । यथा छिद्रशताकीर्णा तत्पञ्जरनिभाभवत् || २३० || तत्राप्यसारतां प्राप्ते पक्कणे पक्कपत्रवत् । उत्पादित महोत्पातं खरयातमजीजनत् ॥ २३१ ॥ अन्तरिक्षे महावृक्षांस्तृणोत्क्षेपं समुत्क्षिपन् । विक्षिपन पांशुविक्षेपं दिक्षु च ग्रावकर्करान् ॥ २३२ ।। सर्वतो रोदसीगर्भ भस्त्रापूरं च पूरयन् । उत्पाट्योत्पाट्य वातोऽसौ भगवन्तमपातयत् ॥ २३३ ॥ (युग्मम्) १ तावत् ॥ २षद D, M ||
चतुर्थः
सर्गः
| ॥ १०८ ॥