SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ सकुलाचलमेदिन्याः प्लावनव्यक्तवैभवः । येषामेष सुगंडूषंकरश्च मकराकरः ॥ १८१ ॥ अप्येकभुजदंडेन प्रचण्डा छत्रलीलया । उद्धरन्ति सहानेकभूधरां ये वसुन्धराम् ॥ १८२ ।। तेषामसमऋद्धीनां सुराणाममितौजसाम् । इच्छासंपन्नसिद्धीनां मर्त्यमानं कियानयम् ॥ १८३ ॥ एषोऽहं चालयिष्यामि सं ध्यानादित्युदीर्य सः। करेण भूमिमाहत्योवस्थादास्थानमण्डपात् ॥ १८४ ।। अर्हन्तः परसाहाय्यात्तपः कुर्वन्त्यखंडितम् । मा ज्ञासीदिति दुईद्धिः शक्रेण म उपेक्षितः ॥ १८५ ॥ ततो वेगानिलोत्पातपतापतधनाघनः । रौद्राकृतिदुरालोको भयापसरदप्सराः ॥ १८६ ॥ विकटोरःस्थलाघातपुञ्जितग्रहमण्डलः । स पापस्तत्र गतवान् यत्रासीत्परमेश्वरः॥ १८७॥ ( युग्मम् ) निष्कारणजगद्वन्धु निरायाध तथा स्थितम् । श्रीवीरं पश्यतस्तस्य मत्सरो ववृधेऽधिकम् ॥ १८८ ॥ गीर्वाणपसिनः पांसुवृष्टिं दुष्टोऽतनिष्ट सः। अकांडघटितारिष्टामुपरिष्टाजगत्प्रभोः ॥ १८९॥ विधुर्विधुन्तुदेनेव दुर्दिनेनेव भास्करः । पिदधे पांसुपूरेण सर्वांगीणं जगत्प्रभोः ॥ १९ ॥ समन्ततोऽपि पूर्णानि तथा श्रोतांसि पांसुभिः। यथा समभवत् स्वामी निःश्वासोच्छ्वासवर्जितः ॥१९१॥ तिलमात्रमपि ध्यानान्न चचाल जगद्गुरुः । कुलाचलचलति किं गजैः परिणतैरपि ॥ १९२॥ अपनीय ततः पांशुं वज्रतुण्डाः पिपीलिकाः । स समुत्पादयामास प्रभोः सर्वांगपीलिकाः॥ १९३ ॥ १ सर्ग Dसगंडकक 20 GREAKKACKERACTICE ॥१०॥
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy