SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ भाण्डानि क्षालयन्त्यासीहहुली तंत्र चेटिका । त्यक्तुकामोषितभक्तमपश्यत् प्रभुमागतम् ॥ १५६ ।। किं तुभ्यं कल्पत ? इति सा स्वामिनमभाषत । पाणिं प्रासारयत् स्वामी भक्त्याऽन्नं सापि तद्ददौ ॥१५७॥ स्वामिपारणकमीतः पंचदिव्यानि नाकिभिः । चक्रिरे तत्र सदने भुमुदे च जनोऽखिलः ॥ १५८ ॥ तदैव बहुली राज्ञा दासीभावावमोच्यत । भवादपि हि मुच्यन्ते भव्याः स्वामिप्रसादतः ॥ १५९ ॥ पारयित्वा प्रमुस्तत्र विहरन् पृथिवीमिमाम् । दृढभूमिमनुप्राप बहुम्लेच्छकुलाऽऽकुलाम् ॥ १६०॥ पेढालग्रामं निकषा पेढालाराममन्तरा | कृताष्टमतपःकर्मा पोलासं चैत्यमाविशत् ॥ १६१ ।। जन्तृपरोधरहितमधिष्ठायशिलातलम् । अमानुलोपितमुजोरावनतविग्रहः ॥ १२॥ स्थिरचेता निर्निमेषो रूकद्रव्यदत्तक । तस्थौ तत्रैकरात्रिक्या महाप्रतिमया प्रभुः॥ १६३ ।। तदा शक्रः सुधर्मायां सभायां परिवारितः । सहस्रैश्चतुरशीत्या सामानिकदिवौकसाम् ॥ १६४ ॥ प्रयस्त्रिंशत्त्रायस्त्रिंशः पर्षद्भिस्तिमृभिस्तथा । चतुर्भिलोकपालेश्च संख्यातीतः प्रकीर्णकैः ॥ १६५ ॥ प्रत्येकं चतुरशीत्या सहस्रैरंगरक्षकैः। दृढाबद्धपरिकरैः ककुप्सु चतसृष्वपि ॥ १६६ ॥ सेनाधिपतिभिः सेनापरिवीतश्च सप्तभिः । देवदेवीगणैराभियोग्यैः किल्बिषिकादिभिः ॥ १६७ ॥ नाम D॥ २ ॥ ३ 'मावसत् DU टि.-* किचित् नतशरीरः ।
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy