SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ अथ वाणिजकग्राम जगाम भगवानपि । अहिश्च धर्मध्यानस्थस्तत्राऽस्थात् प्रतिमाधरः॥ १४३ ॥ तदा षष्ठतपास्तत्र नित्यमातापनापरः । आनन्दायको जातावधिः प्रभुमवन्दत ॥ १४४ ।। स प्राञ्जलिर्घभाषे च भगवन्नतिदुस्सहान् । परीषहानसहिष्ठा उपसर्गाश्च दारुणान् ॥ १४५ ।। वज्रसारं शरीरं ते वज्रसारं च ते मनः । परीषहोपसगैरप्येभिर्यज्यते न हि ॥ १४६॥ इदानीं केवलज्ञानमासन्नं वर्तते प्रभो !। इत्युदित्वा प्रभुं भूयो नत्वाऽऽनन्दो ययौ गृहम् ॥ १४७ ।। कायोत्सर्ग पारयित्वा श्रावस्त्यां पर्युपेत्य च । दीक्षातो दशमं वर्षाकाल स्वाम्यत्यवाहयत् ॥ १४८ ॥ पारयित्वा बहिस्तत्र ग्रामेऽगात्सानुयष्टिके । भद्रां च प्रतिमां तत्र भगवान् पत्यपग्रत ॥ १४ ॥ तस्यां घनशितः पूर्व पूर्वाशाभिमुखः प्रभुः । एकपुद्गलविन्यस्तपृक् तस्थौ सकलं दिनम् ॥ १० ॥ दक्षिणाभिमुखो रात्रिं पश्चिमाभिमुखो दिनम् । उत्तराभिमुखो रात्रिं षष्ठेन प्रतिमा व्यधात् ॥ १५१ ॥ अपारितो महाभद्रां प्रतिमा शिश्रिये प्रभुः । तस्थौ चतुरहोरात्रीं तत्र पूर्वादिदिक्रमात् ॥ १५२ ॥ दशमेन महाभद्रां कृत्वैवं प्रतिमां प्रभुः। प्रपदे सर्वतोभद्रा द्वाविंशतितमेन सः ॥ १५ ॥ प्रत्येकमप्यहोरात्रं तस्थौ दिक्षु दशस्वपि । किं तु न्यध्यायाधोद्रव्याण्यूर्वाधराशयोः ॥ १५४ ।। तिम्रोऽपि प्रतिमाः कृत्वा पारणाप जगद्गुरुः । आनन्दनानो गृहिणः प्रविवेश निकेतनम् ॥ १५५ ॥
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy