SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ स कुंभकारशालायां स्थितः षण्मासिकं तपः । अन्वतिष्ठद्यथाख्यातं तेजोलेश्या सिषेध च ॥ १३० ॥ तेजोलेश्या परीक्षार्थं स गत्वा कूपकंठके । स्वस्य कोपकृते दास्याः कर्करेणाऽभिनद् घटम् ॥ १३१ ॥ सातामा नाचे मुके कुवा । तेजोलेश्या तडिदिव च्युता दासीं ददाह सा ॥ १३२ ॥ संजातप्रत्ययश्चैवं कौतुकालोकनप्रियः । गोशालको वृतो लोकैर्विहर्तुमुपचक्रमे ॥ १३३ ॥ श्री पार्श्वशिष्या अष्टांगनिमित्तज्ञानपण्डिताः । गोशालकस्य मिलिताः षडमी प्रोज्झितव्रताः ॥ १३४ ॥ नाना शोणः कलिन्दोऽन्यः कर्णिकारोऽपरः पुनः । अच्छिद्रोऽयाग्निवेशानोज्यार्जुनः पञ्चमोत्तरः ॥ १३५ ॥ तेऽप्यख्रष्टांगमहानिमित्तं तस्य सौहृदात् । पुंसां समानशीलानां सद्यो भवति सौहृदम् ॥ १३६ ॥ तेजोलेश्याऽष्टांगमहानिमित्तज्ञानगर्वितः । अहं जिनोऽस्मीति वदन् वसुधां विजहार सः ।। १३७ ॥ नाथोऽपि सिद्धार्थपुराद्वैशालीं नगरीं ययौ । शंखः पितृसुहृत्ताभ्यानचे गणराट् प्रभुम् ॥ १३८ ॥ ततः प्रतस्थे भगवान् ग्रामं वाणिजकं प्रति । मार्गे गंडकिकां नाम नदीं नायोत्ततार च ॥ १३९ ॥ उत्तीर्णमात्रो भगवान् सैकते तप्तवालुके । अधारि नाविकैर्नद्युत्तारणद्रविणार्थिभिः ॥ १४० ॥ तदा च शंखगणराज्जामेयश्चित्रनामकः । नौसैन्येनागतो तो निवृत्तः प्रभुमैक्षत ॥ १४१ ॥ भर्त्सयत्वा नाविकांस्तान् भगवन्तममोचयत् । भक्त्या चाभ्यर्च्य परया चित्रो निजपुरं ययौ ॥ १४२ ॥ I १ क्षणात् ), M || २ मंड" /, मंडि || ३ दौत्ये D | दूत्ये ८ ॥ ||| १०१ ॥
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy