________________
""WW.परमपरा,
तापसः स चुकोपाथ तजोलेश्यां मुमोच च । अत्यन्तघृष्टादहनश्चन्दनादपि जायते ॥ ११७ ॥ तस्या ज्वालाकरालाया भीतो गोशालको ययौ । अभि प्रभु इवत्रस्तोऽभिनदीव वनद्विपः ॥ ११८ ॥ त्रातुं गोशालकं स्वामी शीतलेश्यामथाऽमुचत् । तेजोलेश्या तयाऽशामि वारिणेव हुताशनः ॥ ११९॥ तामृद्धिं स्वामिनः प्रेक्ष्य विस्मिता थेशिकायमः । समुपेत्य नहावीर सप्रश्रयमदोऽवदत् ॥ १२० ॥ न ज्ञातो भवतामेष भगवतिषजनः । तत्सहध्वमिहेदृक्षं प्रतीपाचरणं मम ॥ १२१ ॥ एवमुक्त्वा गते तस्मिन् प्रभुं गोशालकोऽवदत्। तेजोलेश्यालब्धिरियं जायते भगवन् कथम् ? ॥ १२२ ॥ स्वाम्याख्यत्सर्वदा षष्ठं विदध्यायश्च पारयेत् । यमी समखकुल्माषमुष्टयम्बुचुलुकेन च ।। १२३ ॥ नस्य षण्मासपर्यन्ते तेजोलेझ्या गरीयसी । उत्पद्यतास्खलनीया प्रतिपक्षभयकरा ॥ १२४ ॥ कूर्मग्रामाश्च गोशालेनान्वितः परमेश्वरः । प्रतस्थ प्रतिसिद्धार्थपुराख्यं नगरोत्तमम् ॥ १२५ ।। संप्राप्त तत्तिलस्तम्बदेशे गोशालकोऽवदत् । न निष्पन्नस्तिलस्तम्यो यः स्वामिभिरुदीरितः ॥ १२६ ॥ स्वाम्याचल्यो तिलस्तम्बो निष्पन्नः सोऽन्न विद्यते । गोशालोऽश्रद्दधत्तम्र तिलशिम्बां व्यदारयत् । १२७॥ नत्र सप्ततिलान्पश्यनेवं गोशालकोऽवदत । जायन्तेऽत परापत्य पुनस्तत्रैव जन्तवः ॥ १२८॥ तेजोलेश्यां स्वाम्याख्यातां स साधयितुमन्यदा | स्वामिपादान परित्यज्य श्रावस्ती नगरी ययौ ॥१२९॥ १ शम्बां CM