SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ 10-04- MXX-M-12- ददर्श वेशिकां वेश्यामध्यस्थां स स्वमातरम् । तामेवैच्छद्रमयितुमज्ञा हि पशुवजनाः॥२१॥ अदापय ग्रहणकं तस्या एव तदैव सः। निशि स्लातविलिप्तांगस्तद्गृहाय चचाल च ॥ १२ ।। पादः शकृति निर्मनो गच्छतस्तस्य वर्त्मनि | न सोऽज्ञामीत् क्वचिन्मग्न इति स्मरविमोहितः ॥ १३ ॥ तं प्रबोधयितं सद्यस्तदीया कलदेवता। विकल्य गां च बसंचाऽन्तरा तस्थौ तदध्वनः॥२४॥ वत्से धर्षितुमारेभे यावत् सोऽधि पुरीषिणम् । वत्मः स तावन्मानुष्या वाचा गामित्यवोचत ॥ ९ ॥ मातः पश्यायमहीकः पुंस्पशुधर्मवर्जिनः । शकृल्लिप्तं निजं पादं मयि घर्षति निघृणः ॥ १६ ॥ गौरप्युवाच मा ताम्य नाकृत्यं किञ्चिदस्य हि । निजां यो जननी रन्तुं त्वरते कामगर्दभः ॥ १७॥ नछुत्वाऽचिन्तयत्सोऽपि गावो नरगिरा कथम् । वदन्त्यमुष्या वेश्यायाः सूनुरस्मि कथं नु वा ॥२८॥ प्रक्ष्यामि वेश्यां तामेवेत्यालोच्याऽगात्तदोकसि । अभ्युत्थानादिना तस्य प्रतिपत्तिं व्यधाच सा ॥ ९९ ।। निरुद्धकामव्यापारः साशंको गोगिराथ सः । स्थित्वा क्षणमवोचत्तां पारम्पर्य निजं वद ॥ १० ॥ साऽनाकर्णितकं कृत्वा हावभावानदर्शयत् । इदं हि पण्यनारीणां मुख्यं मन्मथशासनम् ॥ १०१॥ सोऽप्यवोचत दास्यापि जल्पितद्विगुणं धनम् । स्वकीयं ब्रूहि सदावं स्वपित्रोः शपथश्च ते ॥ १० ॥ एवं मुहुर्मुहुस्तेन पृष्टा साऽऽख्यद्यथातथम् | साशंकः सोऽपि चोत्थाय जगाम ग्राममात्मनः ॥ १०३ ॥ १ द्रक्ष्यामि , प्रक्षामि D, प्रक्षामि, M. II ||P.41
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy