________________
कुटुंबी तत्र गोशंखी नामाभीराधिपोऽभवत् । वन्ध्या बन्धुमती नाम भार्या तस्यातिवल्लभा ॥ ७७ ॥ ग्रामस्य तस्य चासन्नो ग्रामः खेटकनामकः । हतो दस्युभिरभ्येत्य बन्दा जगृहिरेऽपि च ॥ ७८ ॥ तदा च वेशिका नाम तत्र स्त्री सुषुवे सुतम् । हृते पत्यौ सुरूपेति दस्युभिचालिता च सा ॥ ७९ ॥ सा तु सवरोगार्ता बालपाणिः शशाक न । गन्तुं तैवेगिभिश्रीरैर्गी दुर्दान्तपैरिव ॥ ८० ॥ अथ ताचिरे चौरा यदि त्वं जीवितार्थिनी । तदेनं बालकं मुच मूर्त व्याधिमिवात्मनः ॥ ८१ ॥ साऽभं तरुतले मुक्त्वा भीताऽगादस्युभिः समम् । सर्वस्यापि हि लोकस्य न प्राणेभ्योऽपरं प्रियम् ॥ ८२ ॥ प्रभाते सह गोरूपैगोंशंखी तत्र चागतः । ईक्षा के बालकं तं सुरूप इति चाऽग्रहीत् ॥ ८३ ॥ निजपत्न्याः सुतत्वेन स तं बालकमार्पयत् । अन्य पुत्रोऽप्यपुत्राणां भवत्यत्यन्तबल्लभः ॥ ८४ ॥ छागं निहत्य रक्तेन मिश्रं चक्रे स बालकम् । पत्न्या च सूतिनेपथ्यं ग्राहयामास बुद्धिमान् ॥ ८५ ॥ मद्भार्या गूढगर्भाssसीत् सा सुतं सुषुवेऽधुना । प्रावादीदिति लोके स चकार च महोत्सवम् ॥ ८६ ॥ तन्माता वेशिका चौरैश्चम्पापुर्यां चतुष्पथे । अवास्थाप्यत विक्रेतुं क्रीता योग्येति वेश्यया ॥ ८७ ॥ गणिकाव्यवहारं सा शिक्षिता वेश्यया तया । प्रसिद्धगणिका जज्ञे रुपावगणिताप्राः ॥ ८८ ॥ क्रमेण तरुणीभूतो गोशंखिकसुतोऽपि हि । विक्रेतुं घृतशकटं चम्पायां ससुहृययौ ॥ ८९ ॥ पौरान् विलसतस्तत्र विदग्धरमणीवृतान्। सोऽपि दृष्ट्वा रन्तुमिच्छुर्गणिकापाटकं ययौ ॥ ९० ॥
॥९७॥