________________
गच्छतः स्वामिनोऽभूतां संमुखीनो वधूवरौ । तत्कालजातवीयाही सर्वतो विकृताकृती ।। ३७ ॥ प्रेक्ष्य गोशालकोऽवोचवहो द्वावपि तुन्दिली । दन्तुरी दीर्घचियुकग्रीवो चिल्लो कुनासिकौ ॥ ३८ ॥ अहो संयोजनौचित्यं विधातुर्यदिमावुभौ । कृतौ वधूवरत्वेन मन्ये सोऽपि कुतूहली ॥ ३९॥ एवमग्रे तयोर्भूत्वा भूयो भूयो जगाद सः। अट्टहासं च विदधे वैहासिक इवासकृत् ॥ ४० ॥ वधूवरनराः कुद्धास्तं तस्करमिव द्रुतम् । बध्वा मयूरबन्धेन चिक्षिपुर्वशगहरे ॥४१॥ गोशालोऽयोचत स्वामिन् ! किं मां बद्धमुपेक्षसे । कृपालुस्त्वं परजनेऽप्यसि किं न हि सेवके ॥ ४२ ॥ नं बभाग र सिद्धाों दिमसिदा विपट्टि ने । निज दुश्चरितैरेव चपलस्य कपरिव ॥ ४३ ॥ स्वाम्यप्यदूरे गत्वाऽस्थात्तत्प्रतीक्षणकाम्यया । वधूवरनरा नाथं प्रेक्ष्य चैवं व्यचिन्तयन् ॥ ४४ ॥ पीठभूछत्रभृद्वासौ यद्वान्योऽप्यस्य सेवकः । देवार्यस्य तपोराशेर्यदेषोऽमुं प्रतीक्षते ॥ ४५ ॥ एवं विचिन्त्य तेऽमुश्चन् गोशालं स्वाम्यपेक्षया । समं तेन व्रजन स्वामी क्रमागोभूमिमासदत् ।। ४६ ॥ गोशाल ऊचे गोपालाम्लेच्छा घीभत्समूर्तयः । बजशूरा बजत्येष क पन्थाः कथयन्तु भोः ॥४७॥ प्रत्यूधिरे च गोपालाः किमस्मान कारणं विना । आक्रोशस्येवमध्वन्य श्वशुर्यो नासि नः खलु ॥४८॥ गोशालोऽप्यनवीद भ्यो दासेराः पशुपुत्रकाः । सहिष्यध्वे न चेयूयमाक्रोश्याम्यधिक तदा ॥४॥ स्वभावाख्यानमेतद्वो नाक्रोशोऽयं मया कृतः । किं यूयं म्लेच्छवीभत्सा इत्यलीकं मयोदितम् ? ॥ ५० ॥
१९४॥