________________
प्रतिमा मल्लिनाथस्य सुधावर्तिनिभां दृशोः । अपश्यतां दम्पती तो श्रद्धापूर्व च नेमतुः ॥ २३ ॥ ताबूचतुर्देव ! यदि त्वत्प्रसादाविष्यति । सुतः सुता वा तचैत्यमुद्धरिष्यावहे तव ॥२४॥ त्वद्भक्तौ च भविष्यावस्नतः प्रभृति सर्वदा । इत्युदित्वा जग्मतुस्तौ श्रेष्ठिनो निजमन्दिरम् ॥ २५ ॥ तत्रासन्नाहतव्यन्तर्यनुभावेन चाऽभवत् । भद्राया उदरे गर्भः श्रेष्ठिनः प्रत्ययप्रदः॥ २६ ॥ गर्माहादपि चारभ्य प्रारेभे वागुरो मुदा । तद्देवकुलमुर्तुमात्मानमिव दुर्गः ॥२७॥ तत्र गल्ला इन्दयं मल्लियतिमा मासुरः । निसन्ध्यं विदधे पूजां गृहीताभिग्रहः सुधीः ॥ २८॥ तं ज्ञात्वा जिनभक्तं तु तद्वेश्मनि समाययुः । विहर्तुं साधवः साध्व्यः सोऽप्यानर्च सदैव तान् ॥ २९ ॥ साधूनां नित्यसंसर्गाच्छ्रेष्टिनी श्रेष्ठवुद्धिको । श्रावकत्वं प्रपेदाते विधिज्ञौ च बभूवतुः ॥ ३० ॥ इतश्च भगवान् वीरस्तस्थौ प्रतिमया स्थिरः। अन्तरे शकटमुखोद्यानस्य च पुरस्य च ॥ ३१॥ नत्र वन्दितुमायात ईशानेन्द्रो जिनेश्वरम् । ददर्श वागुरं यान्तं मल्लिषिम्बार्चनेच्छया ॥ ३२॥ ईशानो वागुरं चोचे किं प्रत्यक्षं जिनेश्वरम् । अतिक्रम्याग्रतो यासि तद्विम्बार्चनहेतवे ? ॥ ३३ ॥ अयं हि भगवान् वीरश्चरमस्तीर्थकृत्स्वयम् । छद्मस्थो विहरन्नन्न वर्तते प्रतिमास्थितः ॥ ३४ ॥ मिथ्यादुष्कृतमित्युक्त्वा निश्च कृत्वा प्रदक्षिणाम् । स ववन्दे विभुं भत्तया कूर्मवत्संकुचत्तनुः ॥ ३५ ॥ ईशानो वागुरश्चेशं नत्वा द्वावपि जग्मतुः । उष्णाकं सन्निवेशं च प्रत्यगाद्भगवानपि ॥ ६ ॥