________________
चतुर्थः
सगे:
चपेटाभिर्मुष्टिभिश्च स जघ्ने ग्राम्यदारकैः । हत्वाऽमुं अहिलमलमिति वृद्धरमोच्यत ॥ १० ॥ कर्मारिमर्दनः स्वामी मर्दनाख्ये निवेशने । गत्वा चाऽस्थात्मतिमया बलदेवनिकेतने ॥ ११॥ लिंग यलमुखे दत्त्वा गोशालोऽस्थाच पूर्ववत् । पूर्ववत् कुटितो ग्राम्यैः पूर्ववच्च विमोचितः ॥ १२ ॥ ग्रामेऽगाबहुशालारुये सपाशाली जगदगुरुः । तत्र शालवनोद्याने तस्थौ च प्रतिमाधरः॥ १३॥ शालाया नामतस्तत्र व्यन्तरी कारणं विना । क्रुद्धोपसर्गानकरोत् स्वामिनः कर्मघातकान् ॥ १४ ॥ सा श्रान्ता नाथमानर्च माधोऽपि विहरन् ययो। पुरं लोहागलं राज्ञाऽधिष्ठित जितशत्रुणा ॥ १५॥ तस्य राज्ञोऽन्येन राज्ञा विरोधः समभूत्तदा । आयान् स्वामी सगोशालस्तत्पुंभिश्च पथीक्षितः ॥ १६॥ नोचे किंचिशदा स्वामी पृष्टस्तै राजपूरुपैः। तदानी हेरिक इति जितशत्राः समर्पितः ॥ १७ ॥ पूर्वायातोऽस्थिकग्रामानुत्पलो नाथमैक्षत । ववन्दे च यथावस्थ जितशत्रोः शशंस च ॥ १८ ॥ राज्ञापि वन्दितो भक्त्या विहरन भगवान् ययौ । पुरे पुरिमतालाख्ये तत्र चेदं पुराऽभवत् ॥ १९॥ तम्रासीद्वागुरः श्रेष्ठी धनी भद्रा च तत्मिया। पन्ध्या श्रान्ता सुतकृते दत्तदेयोपयाचितैः ॥ २०॥ श्रेष्ठिनौ शकटमुखोद्याने तावन्यदा गतौ । चिरं चिक्रीडतुर्देवाविव पुष्पोच्चयादिना ॥ २१ ॥ भ्रमन्तौ क्रीया तत्र जीर्णमायतनं महत् । दृष्ट्वा कौतूहलान्मध्येऽविशतां तावुभावपि ॥ २२ ॥
या C. L.!