SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ बभूव चावधिज्ञानं श्रीवीरस्वामिनोऽधिकम् । अनुत्तरस्थितस्येव सर्वलोकावलोकनम् ॥ ६२२ || सहजं त्ववधिज्ञानं यावद्देवभवेऽभवत् । एकादशांगीसूत्रार्थभृत्त्वं च चरमार्हतः ॥ ६२३ || शान्ता निशान्ते सा सानुतापा च कटपूतना । पूजयित्वा प्रभुं भक्त्या निजं स्थानमुपायया ॥ ६२४ ॥ अथ गत्वा भद्रिकार्या पुर्या तस्थौ तपः परः । दीक्षायाः प्रावृषं षष्ठीमतिवाहयितुं प्रभुः ॥ ३२५ ॥ गोशालस्तत्र मिलितः षष्ठमासाज्जगद्गुरोः । सेवां कुर्वन् प्राग्वदस्थात् प्रत्यहं प्रीतमानसः ॥ ६२६ ॥ विविधाभिग्रहपूर्वकं चतुर्मासक्षपणं तत्र च प्रभुः । कृत्वा वर्षारात्रनिर्गमे विदधे पारणकं पुरो बहिः ६२७|| ॥ इत्याचार्यश्री हेमचन्द्रविरचिते त्रिषष्टिशलाका पुरुषचरिते महाकाव्ये दशमपर्वणि श्रीमहावीरप्रथम वर्षारविहारवर्णनो नाम तृतीयः सर्गः ॥ * तृतीय: सर्गः ॥ ९० ॥
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy