SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ तस्यैव तं घनं मूनि स्वशत्याऽपातयद्धरिः । कथंचिद्रोगमुक्तोऽपि जगाम स यमालयम् ॥ ६१०॥ प्रणम्य स्वामिनं शक्रः कल्पं सौधर्ममभ्यगात् । स्वामी च विहरन माप ग्रामाकं सन्निवेशनम् ॥ ६११॥ विभेलकाभिधानस्य तत्र यक्षस्य सद्मनि । विभेलकोद्यानस्थेऽस्थात् कायोत्सर्गधरः प्रभुः ॥६१२॥ स यक्षः प्राग्भवस्पृष्टसम्यक्त्वोऽपूजयत्प्रभुम् । दिव्यैः पुष्पांगरागायैरनुरागाधिवासितः ।। ६१३ ॥ ग्रामेऽथ शालिशीर्षेऽगात्तत्र च त्रिजगत्मभुः । उद्यानेऽस्थात्मतिमया माधमासस्तदा त्वभूत् ॥६१४॥ वानमन्तरिका तत्र नामतः कटपूतना । त्रिपृष्ठजन्मनि विभोः पत्नी विजयवत्यभूत् ॥ ६१५ ।। सम्यगपतिचरिता सामर्षय सती मृता । भ्रान्त्वा भवान् सा मानुष्यं प्राप्य बालतपोऽकरोत् ॥६१६॥ सा तत्र व्यन्तरीभूता स्वामिनः पूर्ववैरतः । तेजोऽसहिष्णुळकरोत्तापसीरूपमग्रतः ॥ ६१७॥ जटाभृद्वल्कलधरा हिमशीतेन पाथसा । आर्द्रयित्वा वपुस्तस्थावुपरिष्टाजगत्प्रभोः ॥ ६१८॥ ततो वातं विकृत्याङ्गान्यधुनोच्छल्लकीव सा । जिने पेतुः शलानीव दुःसहाश्चाम्बुबिन्दवः ॥ ६१९ ॥ जटाग्राद्वल्कलाग्राच पतन्तस्तोयबिन्दवः । चिक्लिशु थमन्यश्चेद्भवेन्नूनं स्फुटेत्तदा ।। ६२० ॥ भर्तुः शीतोपसर्ग तं सहमानस्य तां निशाम् । विशेषात् कर्मक्षपणं धर्मध्यानमदीप्यत ॥ ३२१॥ "मयों च 1.॥ २ समानु°C. D.L.॥ टि.- *शाहुडी' इति भाषायाम् । । शलकीपिच्छानि । ॥८ ॥
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy