________________
वृक्षारूढश्चौरपुमान गृध्रवद् दूरतोऽपि तम् । ददाख्यच्च चौराणां मग्नः कोऽप्यत्यकिंचनः ॥ ५९.७॥ तेऽप्यूचिरे तथाप्येष न मोच्यः स्याच्चरोऽप्ययम् । किं चैष नः पराभूय यातीदमपि नोचितम् ॥ ५९८ ॥ एवं चाभ्यर्णमायातं गोशालं मातुलेहि भोः । वदन्तः पृथगिति तेऽध्यारुह्य तमवाहयन् ॥५९९ ॥ पृथक् पृथयाइरया तेषां योशालाओनयात् : भासदोषवपुस्ते च चौराः प्रययुरन्यतः ॥ ६००॥ अचिन्तयच्च गोशालो विपत्मथमतोऽप्यसौ । शुनेव स्वामिहीनेन मया लब्धाऽद्य दुःसहा ॥६०१॥ भर्तुश्च विपदं प्रन्ति देवाः शक्रादयोऽपि हि । तत्पादशरणस्थस्य ममापि विपदोऽत्यगुः ॥६०२॥ क्षम स्वयमपि त्रातुमुदासीनं तु कारणात् । मन्दभाग्यो निधिमिव तं प्राप्स्यामि कथं पुनः ॥ ६०३॥ अन्वेष्यामि तमेवेति निश्चित्यातीत्य तनम् । गोशालोऽश्रान्तमभ्राम्यत् प्रभुपाददिदृक्षया ॥६०४॥ स्वामी जगाम वैशाल्यां शालां कर्मारसंश्रिताम् । अनुज्ञाय जनांस्तत्स्थांस्तस्थौ च प्रतिमाधरः ॥ ३० ॥ कर्मारो रोगितश्चैकः षण्मास्या कल्यतां गतः। शुभेऽहनि स्वजनन वृतः शालामियाय ताम् ॥ ६०६॥ तत्राग्रे स्वामिनं दृष्ट्रा सोऽचिन्तयदहो इदम् । प्रथमेऽप्यहि पाखण्डिदर्शनाशकनं मम ॥६०५॥ इहैवामंगलमिदं पातयामीत्ययोधनम् । उत्पाट्य स्वामिनं हन्तुं सोऽधायत दुराशयः ॥६०८ ॥ क स्वामीति तवा ज्ञातुं प्रायुक्त मघवाऽवधिं । जिघांसुं तं च कर्मारमपश्यच्चाजगाम च ॥ २०१॥ २ तुलैव भोः ।। तुलो हि मोः ।।
॥८८॥