SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ पार्श्वशिष्ये च प्रगल्भाविजये प्रोज्झितव्रते । निर्वाहाय परिवाद्त्वं प्रपन्ने तत्र तिष्ठतः ॥ ५८३ ॥ I माकर्ण्य तां मा भूद्वीरोऽर्हन्निति शंकया। तत्रेयतुस्तथास्थं च भगवन्तमपश्यताम् ॥ २८४ ॥ ( युग्मम् ) ते स्वामिनं ववन्दा आरक्षांश्चैवमूचतुः । रे मूर्खा । किं न जानीथ वीरं सिद्धार्थनन्दनम् ॥ ५८५ ॥ शीघ्रं मुञ्चत घेज्ज्ञाता शक्रो व्यतिकरं ह्यमुम् । पातयिष्यति वो मूर्ध्नि वज्रं प्राणहरं तदा ।। ५८६ ॥ अथ तैकतैर्मुक्तः क्षमितश्च प्रभुः पुरीम् । वैशालीं प्रति चचाल द्वौ मार्गौ स्तस्तदन्तरे ॥ २८७ ॥ तत्रावोचत गोशालो नायास्यामि त्वया समम् । मां हन्यमानमपि यत्त्वं तटस्थ इवेक्षसे || ५८८ ॥ अन्यत्तयोपसर्गैः स्युरुपसर्गा ममापि हि । यदग्निः शुष्कसंसर्गाहहत्यार्द्रमपि क्षणात् ॥ ५८९ ॥ अन्य लोको मामादौ निहन्ति त्वां ततः खलु । क्लेशाद्भोजनवृत्तिश्च जायते वा न वा मम ।। ५९० ॥ ग्रावखंडे च रत्ने चारण्ये च नगरेऽपि च । आतपे मंडपे चापि वह्नौ च सलिलेऽपि च ॥ ५९१ ॥ जिघांसी सेवके वापि निर्विशेषस्य ते ननु । सेवां को नाम कुर्वीत न योऽहमिव मूढधीः ॥ २९२॥ (युग्मम्) त्वत्सेवा तालसेवेव मया भ्रान्तेन या कृता । सा स्मर्तव्याऽतः परं तां करिष्यामि न खल्वहम् ॥ ५९३ ॥ सिद्वार्थीsesi रोचते यत्कुरुष्व तत् । इयमेव हि नः शैली सा भवेज्जातु नान्यथा ॥ ५९४ ॥ ततो जगाम भगवान वैशालीगामिनाध्वना । प्रचचाल च गोशाल एको राजगृहाध्वना ॥ ५९५ ॥ गोशालोsयान्महारण्यं चौरपंचशतान्वितम् । विवेश नृषक इव सर्पाकीर्णं महाधिलम् ॥ ५९६ ॥ १ संपर्काM ॥ ९॥८७॥
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy