________________
तृतीयः सर्गः
भुञ्जानस्तत्र गोशालः पिशाच इव नाऽतपत् । ग्राम्याः स्थालं महत् सर्वान्नपूर्ण तस्य चार्पयन् ॥ ५७० ॥ तद्भक्तमखिलं भोक्तुं गोशालो न त्यभूत्क्षमः । आर्कटमात्राहारो यदाचामेऽप्यलसायते ॥ ५७१ ॥ स्याहारशक्तेरप्यज्ञः किं दुष्कालोऽसि मूर्तिमान ? । इत्युक्त्तवा चिक्षिपुर्भक्तस्थालं तन्मूर्ति तज्जनाः ॥ ५७२॥ * तुन्दं परामृशंस्तृप्त्या गोशालोऽगाद्यथागतम् । जम्बूखण्डाभिधं ग्रामं जगाम भगवानपि ।। ५७३ ।। प्रतिमास्थे प्रभो तत्रास्तारिकाभक्तलिप्सया । गतो गोशालफः प्राग्वत्प्राप भोजनधर्षणे ॥ ५७४ ॥ क्रमेण प्रययौ स्वामी तुंबाके सन्निवेशने । यहिश्चास्थात्प्रतिमया गोशालो ग्राममभ्यगात् ।। ५७५ ॥ तन्त्र पार्श्वशिष्यानन्दिषणान वृद्धान् बहुश्रुतान् । परिवारभृतो मुरावा गच्छचिन्तामशेषतः ।। ५७६ ॥ जिनकल्पप्रतिकर्म प्रपन्नान्मुनिचन्द्रवत् । दृष्ट्वा जहास गोशालः स्वाम्यभ्यर्णमगात्पुनः ॥ ५७७ ॥ (युग्मम् ) नक्तं चतुष्के ते तस्थुर्नन्दिषेणमहर्षयः । कायोत्सर्गभृतो धर्मध्यानस्थाः स्थाणुवस्थिराः ॥ ५७८ ॥ आरक्षेण च दृष्टास्ते चौरभ्रान्त्या च जनिर । सद्यो जातावधिज्ञाना मृत्वा दिवमुपासवन ॥ ५७९ ॥ प्रेक्ष्य गोशालकस्तेषां महिमानं कृतं सुरैः । तच्छिष्याणामुपेत्याऽख्यदुचैर्भर्सनपूर्वक्रम् ॥५८० ॥ अथाऽगादिष्टरन वीरः कपिकां सन्निवेशनम । मन्त्रारीः सगोशाला स्पशभ्रान्त्या कदर्धितः॥१८॥ देवायों रूपवान् शान्तो युवारक्षः स्पशभ्रमात् । निरागास्ताङ्यमानोऽस्तीत्युल्लापोऽभूजनेऽखिले ॥ ५८२॥ माना MI
11८६॥