SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ तन्मुक्त ऊचे गोशाला स्वामिन्नद्यापि किं नु माम् । उपेक्षसे हन्यमानं वज्रवन्निष्ठुरोऽसि हा ॥ ५३२ ॥ सिद्धार्थस्तमभाषिष्ट मुष्ठ्वद्यापि निहन्यसे । व्याधिनेवांगोस्थितन स्वभावनामुनैव हि ॥ ५३३ ।। कायोत्सर्ग पारयित्वा ग्राम आवर्तनामनि । गत्या स्वामी बलदवौकस्यस्थात् प्रतिमाधरः॥ ५३४ ॥ डिम्भांस्यापि गोशालो भीषयावर पर्वतान् ! तपितृभिः कुट्यते स्म चक्रीवानिष दुर्मदः ॥ ५३५ ।। गतेषु तत्पितृष्वर्भान् पुनीषयते स्म सः। प्राणात्ययेऽपि अन्तूनां प्रकृतिः खलु दुस्त्यजा ॥ ५३६ ।। क्रुद्धास्तत्पितरोऽभ्येत्य परस्परमदोऽवदन् । वराकं बालकुट्टाकं कुट्टयित्वालमेतकम् || ५३७ ॥ स्वाम्यस्य कुट्यतामेष य एनं न निषधति । भृत्यानामपराधे हि भर्तुर्दण्ड इति स्थितिः ।। ५३८ ॥ हित्वागस्यपि गोशालं शालावृकमिवाथ ते । उदस्तदण्डाः श्रीवीरमभ्यढौकन्त दुर्धियः॥५३९॥ नत्रस्थव्यन्तरेणार्हद्गृोणाधिष्ठिता रुषा । साक्षात्सीरीव सीर्यात्सीरोदस्थाच्च तद्गुहे ॥ ५४॥ आशंकाविस्मयाकीर्णाः पतित्वा पादपद्मयोः । स्वामिनं क्षमयामासुस्ते ग्रामीणाः स्वनिन्दिनः ॥ ५४१ ॥ ततश्च प्रययौ स्वामी चोराके सन्निवशने । तत्रैकत्र रहास्थाने तस्थौ च प्रतिमाधरः॥४२॥ गोशालो नाथमित्यचे गन्तव्यं चर्यया न वा ? । सिद्धार्थोऽभिदधेऽस्माकमुपवासोऽय वर्तते ॥४३॥ गोशालः क्षुधितोऽविक्षद् ग्रामे भिक्षार्धमुत्सुकः । गोष्ठीभक्तं तदा तत्र राध्यमानं ददर्श च ॥ २४४ ॥ १ दक्तेनाधि' | || ॥८॥
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy