________________
भोजनावसरे प्राप्ते गोशालः प्रभुमभ्यधात् । भिक्षार्थं भगवन्नेहि जन्मसारं हि भोजनम् ॥ २०६ ॥ सिद्धार्थः प्राग्वदित्यूचे हंहो वयमुपोषिताः । गोशालोऽपृच्छदथ स्यान्ममाहारोऽथ कीदृशः ॥ ५०७ ॥ सिद्धार्थोऽप्याख्यदधुना नृमांस भक्षयिष्यसि । गोशाल ऊचे तद्भोक्ष्ये मांसगन्धोऽपि यत्र न ॥ १०८ ॥ एवं निश्चित्य भिक्षायै श्रावस्तीं सोऽविशत्पुरीम् । इतश्च तस्यां नगय पितृदत्तोऽवसद् गृही ॥ ५०९ ।। श्रीभद्रा तत्प्रिया *निन्दुर्नैमित्तं शिवदत्तकम् । अपत्यं मे कथं जीवेदित्यपृच्छत् कृतादरा ॥ ५१० ॥ सोऽप्याचख्यौ जातमृतं पिट्वा सापलं शिशुम् । क्षीरेण पायसीकृत्य सर्पिर्मधुसमन्वितम् ॥ ५११ ॥
धुलितपादाय भोक्तुं दत्से सुभिक्षवे । तज्जीविष्यन्त्यपत्यानि नूनं नश्यत्प्रसूतिके ! | १२|| (युग्मम्) भुक्त्वा तत्र गते गेद्वारं कार्यं त्वयान्यथा । ज्ञात्वा तद्भोजनं क्रुद्धो मा घाक्षीत्स गृहं तव ॥ ५१३ ॥ मृता पायीच स्वं तथैव सुतार्थिनी । गोशालायागतायाऽदात्तदानीं भक्तितश्च सा ॥ ५१४ ॥ भुक्त्वा च गत्वा स्वाम्यग्रेऽवोचद्रान्तचिरादसि । सिद्धार्थोऽप्याख्यदेतस्मै पायसं तत्तथा कृतम् ॥ ५१५ ।। म त गोशालो मुखे क्षिप्त्वा निजांगुलीम् । नखाद्यवयवांस्तत्र ददर्श च चुकोष च ॥ २१६ ॥ यौनश् चान्वेष्टुं तद्द्वारे त्वन्यथा कृते । नाझासीत्तत्तु गोशालो गोपाल इव लक्षणम् ॥ ५१७ ॥ ततोऽप्युवाच गोशालस्तपस्तेजश्च मद्गुरोः । यदि तद्दृह्यतामेष प्रदेशः सकलोऽपि हि ॥ ५१८ ॥ टि. - * निन्दुः मृतापत्यजनयित्री |
| ॥ ८१ ॥