SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ तस्य देवकुलस्यैककोणे तस्थौ समाहितः । तत्स्तम्भ इव निष्कम्पः कायोत्सर्गधरः प्रभुः ॥ ४९२ ॥ माघमासे तदा रात्रौ शीतमासीत् सुदुस्सहम् । तेषां पाखण्डिनां देवकुले चाभून्महोत्सवः ।। ४९३ ॥ ते पुत्रादिपरीवारास्तस्मिन्नायतने मुदा । तदा संभूय नन्तुर्जगुः परिजजागरुः ॥ ४९४ ॥ हसनचेऽथ गोशालः पाखण्डाः केऽप्यमी बन । येषां पत्न्यो मद्यपानं गीतनृत्तादि योच्चकैः ॥ ४५ ॥ नच्छ्रुत्वा कुपितास्तेऽपि सारमेयमिवालयात् । कण्ठे गृहीत्वा गोशालं तत्काल निरसारयन् ॥ ४२६॥ शीतसंकुचितांगोऽस्थागोशालोऽथ हकारवत् । वादयन्दन्तपंक्तिं च वैणिको वल्लकीमिव ॥ ४९७ ॥ गोशालं सानुकम्पास्ते तत्र मावेशयन पुनः । सोऽपशीतो मुहतेन तथैव पुनरभ्यधात् ॥ ४९८ ॥ स तैनिःसारितो भूयो भूयश्चापि प्रवेशितः । एवं कोपकृपाभ्यां ते तस्य निरिति चक्रिरे ।। ४२०॥ तुर्यवारेऽथ गोशालः प्रविष्टोऽप्यनवीदिति । सद्भतार्थाभिधानेऽपि को वः कोपोऽल्पमेधसाम् ॥ ५०० ॥ निजाय दुश्चरित्राय पाखण्डाः किं न कुप्यथ ? । स्फुटार्थवादिनेऽमुष्मै मस्य द्रुह्यध किं मुहुः ॥ ५०१ ॥ उत्तिष्ठतोऽथ पाखण्डयूनस्तस्कुटनेच्छया । निवारयन्तस्तवृद्धा एवमभ्यधुरुच्चकैः ॥ ५०२॥ देवार्यस्य तपोराशेः कोऽप्यमुष्य महात्मनः । पीठधारइछत्रधारोऽपरो वा स्यादुपासकः ॥ ५०३ ॥ अनेन भाषितेनाऽलं भाषतां स्वेच्छयाप्यसौ । श्रोतुं चेन्न क्षमास्तोः कुरुध्वं वाद्यवादनम् ।। ५०४ ॥ तथैव चक्रिरे तेऽपि जातेऽथ तपनोदये । श्रावस्ती स्वाम्यगात्तस्थौ पहिश्च प्रतिमाधरः ॥ ५०५ ॥ AAAAAAAAGRICANA ॥८॥
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy