SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ 0000 प्रतिचक्रभयात्तत्रारक्षैश्चौरगवेषिभिः । कायोत्सर्गस्थितः स्वामी सगोशालोऽप्यदृश्यत ॥ ४७८ ॥ ब्रूहि कोऽसीति तैः पृष्टः स मौनाभिग्रहः प्रभुः । न किश्चिदभ्यश्राद्वाचंयमा हि बधिरा इव ॥ ४५९॥ कस्यापि हेरिको ह्येष नूनं यन्मौनभागसौ । स्वामिनं ते सगोशालं जगृहुः क्रूरबुद्धयः ॥ ४८० ॥ गोशालं शाकिनीवत्ते बद्ध्या कूपे निचिक्षिपुः । मुहुर्घटीवद्विदधुर्धचनोदंचनानि च ॥ ४८१ ॥ पार्श्वशिध्ये उत्पलस्य जामी सोमाजयन्तिके । साधुवय परिव्राजौ चोराकेऽवसतां तदा ॥ ४८२ ॥ Feat नरौ कौचित क्षेपणोत्क्षेपणैर्जले । आरक्षैः पीड्यमानौ स्तस्ते इत्यशृणुतां जनात् ॥ ४८३ ॥ छद्मश्वरमतीर्थकरोऽसौ नु भवेदिति । उपेत्य ते क्षणान्नार्थं तथावस्थमपश्यताम् ॥ ४८४ ॥ आरक्षानूचतुचैवं किं रे मूर्खा मुमूर्षवः । न जानीथ प्रभुममुं सिद्धार्थन्नृपनन्दनम् ॥ ४८५ ॥ ते भीताः स्वामिनं मुक्त्वा नत्वा चाक्षमयन्मुहुः । महान्तो हि न कुप्यन्ति क्षम्यन्ते स्वात्मशंकितः ॥४८६॥ दिनानि कतिचित्तत्रातिवाह्य परमेश्वरः । तुर्या प्रावृषमत्येतुं पृष्ठचम्पां पुरीं ययौ ॥ ४८७ ॥ चर्तुमासक्षपणक्रुद्विविधप्रतिमाचरः । चतुर्मासीं जगन्नाथस्तन तस्थाववस्थितः ॥ ४८८ ॥ चतुर्मास्यन्नदिवसे पारयित्वा बहिः कवचित् । जगाम त्रिजगन्नाथ नगरं कृतमंगलम् ॥ ४८९ ॥ दरिद्रस्थविराभिख्याः सारम्भाः सपरिग्रहाः । सकलत्राः ससन्तानास्तत्र पाखण्डिनोऽवसन् ॥ ४९० ॥ मध्ये तत्पाटकस्यासीदेकं देवकुलं महत्। तेषां कुलकमाघातदेवताप्रतिमांकितम् ॥ ४९१ ॥ ॥। 36 ।। ।
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy