________________
अतः खलु विवेकिनस्तमपहाय सर्वसहा
विशन्ति पदमक्षयं विविधकर्म-हान्युत्थितं ॥६५॥ (चतुर्थमुख) उद्दीप्त-दुःख-शिखि-संगतिमङ्गयष्टि
तीवाजवजव-तपातप-ताप-तप्तां । नक-चन्दनादिविषयामिष-तैल-सिक्तां
को वावलम्ब्य भुवि सञ्चरति प्रबुद्धः ॥६६॥ स्रष्टुः स्त्रीणामनेसां सृष्टितः किं
___गात्रस्याधोभूमिसृष्ट्या च किं स्यात् । पुत्रादीनां शत्रु-कायं किमयं
सृष्टेरित्थं व्ययंता घातुरासीत् ।।६७।। इदं हि बाल्यं बहु-दुःख-बीज
मियं वय:श्रीग्र्घन-राग-दाहा । स वृद्धभावोऽमर्षास्रशाला
दशेयमङ्गस्य विपत्फला हि ॥८॥ लब्धं मया प्राक्तन-जन्मपुण्यात्
सुजन्म सद्गात्रमपूर्चबुद्धिः । सदाश्रयः श्रीजिन-धर्मसेवा
ततो विना मा च परः कृत्ती कः ॥६९।। इत्थं विभाव्य सकलं भुवन-स्वरूप
योगी विनश्वरमिति प्रशमं दधानः । अविमीलितहगस्खलितान्तरंग:
पश्यन् स्वरूपमिति सोऽवहितः समाधी ॥७०॥ हृदय-कमल-मध्ये सैद्धमाधाय रूपं
प्रसरदमृतकल्पैम्र्मूलमन्त्रः प्रसिञ्चन् । मुनि-परिषदुदीन-स्तोत्र-घोषैस्सहैव
श्रुतमुनिरयमङ्ग स्वं विहाय प्रशान्तः ॥७॥ अगमदमृतकल्पं कल्पमल्पीकृतैना
बिगलितपरिमोहस्तत्र भोगागकेषु । विनमदमर-कान्तानन्द-वाष्पाम्बु-धारा
पतन-हृत-रजोऽन्तर्दाम-सोपानरम्यं १७२||
पट्टावली : ४१५