SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ ↑ 44 सपदि विमलिताब्द- रिलष्ट-प्रांसु-प्रतानं किमधिवसति योषिन्मन्दफूत्कारवातैः ॥४७॥ कृतिततिहितवृत्तस्सत्त्वगुप्तिप्रवृत्तो जितकुमतविशेषण शोषिताशेषदोषः । जितरतिपत्ति- सत्वस्तत्त्व-विद्या-प्रभुत्व स्सुकृतफल-विधेयं सोऽगमद्दिव्यभूयं ॥४८॥ गतेऽत्र तत्सूरिपदाश्रयोऽयं मुनीश्वर सङ्घमवर्द्धयत्तराम् । गुणैश्च शास्त्रेश्चरितैरनिन्दितैः प्रचिन्तयन्तद्गुरुपादपङ्कजम् ॥१४९॥ प्रकृत्य कृत्यं कृतसङ्घरक्षो विहाय चाकृत्यमनल्पबुद्धिः । प्रवर्द्धयन् धर्म्ममनिन्दितं तद्गुरूपदेशान् सफलीचकार ||५०॥ अखण्sयदयं मुनिमिवाग्भिरत्युद्धान् अमन्द-मद-सञ्चरत्कुमत - वादिकोलाहलान् । भ्रमन्नगरमभूद् भ्रि तरंग-ततिविभ्रम-ग्रहण चातुरोभिर्भुवि ॥५१॥ का त्वं कामिनि कथ्यतां श्रुतमुनेः कीर्तिः किमागम्यते ब्रह्मन् मत्प्रियसन्निभो भुवि बुधस्सम्मृग्यते सर्व्वतः । नेन्द्रः किं स च गोत्रभिद धनपतिः किं नास्त्यसी किन्नरः शेषः कुत्र गतस्स च द्विरसनो रुद्रः पशूनां पतिः ॥५२॥ वाग्देवताहृदय रज्जन- मण्डनानि मन्दार-पुष्प-मकरन्द रसोपमानि । आनन्दिताखिलजनान्यमृतं वमन्ति कर्णषु यस्य वचनानि कवीश्वराणां ॥५३॥ समन्तभद्रोऽप्यसमन्तभद्रः श्री- पूज्यपादोऽपि न पूज्यपादः । मयूरपिचछोऽप्यमयूरपिच्छ श्चित्रं विरुद्धोऽप्यविरुद्ध एषः ॥ ५४ ॥ एवं जिनेन्द्रोदितधर्म्ममुचेः प्रभावयन्तं मुनि-वंश-दीपिनं । अदृश्यवृत्त्या कलिना प्रयुक्तो वधाय रोगस्तमवाप दृत्तवत् ||५५|| पट्टावली ४१५
SR No.090510
Book TitleTirthankar Mahavira aur Unki Acharya Parampara Part 4
Original Sutra AuthorN/A
AuthorNemichandra Shastri
PublisherShantisagar Chhani Granthamala
Publication Year
Total Pages510
LanguageHindi
ClassificationBook_Devnagari, History, & Biography
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy