________________
शुद्ध व्योम्नि द्वादशात्मा करोध
र्य्यद्वत्पद्मव्यूहमुन्निद्रयन्स्वैः ॥३६॥ दुर्वाधुक्तं शास्त्रजातं विवेकी वाचानेकान्तार्थसम्भूतया यः । इन्द्रोऽछान्या मेघजालोत्थया भूवृद्धा भूभृत्संहति वा विभेद ॥३७॥ यद्वत्पदाम्बुजनतालमिपालमौलि
रत्नांशवोऽनिशममु विदधुः सरागं । तदन्न वस्तु न वधून च वस्त्रजातं
मो यौन्वनं न च बलं न च भाग्यमिजं ॥३८॥ प्रविश्य शास्त्राम्बुधिमेष धीरो जग्राह पूर्व सकलार्थरलं । परेऽसमस्तिदनुप्रवेशादेककमेवात्र न सर्वमापुः ॥३९|| सम्पाद्य शिष्यान्स मुनिः प्रसिद्धा
नध्यापयामास कुशाग्रबुद्धीन् । जगत्पवित्रीकरणाय धर्म
प्रवत्तंनायाखिलसंविदे च ॥४०॥
कृत्वा भक्ति ते गुरोस्सर्वशास्त्र नीत्वा वत्सं कामधेनु पयो वा ।
स्वीकृत्योच्चस्तत्पिबन्तोऽतिपुष्टाः शक्ति स्वेषां ख्यापयामासुरिद्धां !॥४१॥ तदीयशिष्येषु विदावरेषु गुणैरनेकै: श्रुतमुन्यभिख्यः । रराज शेलेषु समुन्नतेषु स रत्नकूटैरिव मन्दराद्रिः ४२॥ कुलेन शोलेन गुणेन मत्या शास्त्रेण रूपेण च योग्य एषः । विचार्य तं सूरिपदं स नीत्वा कृतकियं स्वं गणयाञ्चकार ।।४३।। अर्थकदा चिन्तयदित्यनेनाः स्थिति समालोक्य निजायुषोऽल्प । समार्य चास्मिन् स्वगणं समर्थे तपश्चरिष्यामि समाधियोगं ॥४४॥ विचार्य चैवं हृदये गणाग्रणीन्निवेदयामास विनेयबान्धवः ।
मुनिः समाहूय गणाप्रवत्तिनं स्वपुत्रमित्थं श्रुतवृत्तशालिनं ॥४५|| ( तृतीयमुख)
मदनत्वयादेष समागतोऽयं गणो गुणानां पदमस्य रक्षा। त्वयांग मत्क्रियतामितीष्टं समर्पयामास गणी गणं स्वं ॥४६॥ गुरुविरहसमुद्यद्द :खदूनं तदीयं
मुखं गुरुवचोभिस्स प्रसन्नीचकार । ४१४ : तीर्थकर महावीर और उनको आचार्यपरम्परा