________________
नानाऽनेकान्तनीत्या जितकुमतशठो विश्वतत्वेकवेत्ता शुद्धात्मध्यानलीनो विगतकलिमलो राजसेव्यक्रमाब्जः । शास्त्राब्धिपोतप्रख्यो विमलगुणनिधी रामकीर्तेः सुपट्टे पाया: श्रीप्रसिद्ध जगति यतिपत्तिः पद्मनन्दी (९६) गणीशः ॥५०॥
तत्पट्टपद्मविकचीकरणेकमित्रः सद्बोधबोधितनृपो विलसच्चरित्रः । भट्टारको भवि विभात्यवबोधनेत्रः देवेन्द्रकीर्त्ति (९७) रतिशुद्धमतिः पवित्रः ॥५१॥ श्रीसर्वज्ञोक्तशास्त्राऽध्ययनपटुमतिः सर्वर्थकान्तभिन्नः चिद्रूपो भाति वेत्ता क्षितिपतिमहितो मोक्षमार्गस्य नेता । भव्याब्जोदोषभानुः परहितनियतः पद्मनन्दीन्द्र पट्टे जीयाद्भट्टारकेन्द्रः क्षितितलविदितां देवेन्द्रकी ॥५२॥ तत्पट्टनीरजविकाशन कर्मसाक्षी पापान्धकारविनिवारणकर्मसाक्षी दुर्वादिदुर्वनकेरवकर्मसाक्षी
श्री क्षेमकीर्त्ति (९८ ) मुनियो जितकर्मसाक्षी ||५३॥ हेयायविचारणातिमतिर्वादीन्द्रचूड़ामणिः स्फुय्र्यद्विश्वजनीनवृत्तिरनिशं सम्यक्त्वतालंकृतः । सद्भाक्यामृत रज्जिता खिलनृपो देवेन्द्रकीर्तेः पदे जीव्याद्धर्षपरः शतं क्षितितले श्रीक्षेमकीत्तिर्गरुः ॥५४॥
सत्पट्ट कोकनद-मोदन - चित्रभानुः दुःकर्म दुस्तर सुनाशन- चित्रभानुः । भव्यालि-तामरस-रंजन-चित्रभानुः
जीयान्नेरन्द्रवरकीत्ति (९९) सुचित्रभानुः ॥ ५५ ॥ श्रीमत्स्याद्वादशास्त्रावगमवरमतिः शान्तमूत्तिर्मनोशः दिव्यत्स्वत्मोपलब्धिः प्रहृतकलिमलो मोक्षमार्गस्य नेता । सर्वज्ञाभासवेदालिमकलमदरुत् क्षेमकीर्तेः सुपट्ट
सूरिः श्रीमन्नेरन्द्रो जयति पटुगुणः कीर्तिशब्दाभियुक्तः ॥ ५६॥ तत्पट्टवारिविविवर्द्धनपूर्णचन्द्रः
पुष्पायुधं भहरिणाधिपत्तिवितेन्द्रः । सद्बोधवारिजविकाशनवासरेन्द्रः
भट्टारको विजयकीर्ति (१००) रसौ मुनीन्द्रः ॥५७॥
३९८ : तीर्थंकर महावीर और उनकी आचार्य परम्परा