________________
प्राज्ञो वादीर्भासहः सकलगुणनिधिर्ध्वस्तदोषः कृपालुः । शान्तो मोक्षाभिकाङ्क्षी नरमतिः कान्ति क्षिप्ताशत्तकवेत्ता शुभतरवचनः सर्वलोकस्थित्तिशः । श्रीमानीषः कृतज्ञो जयति जगति सः श्रीगुणाद्यन्तकीर्तिः || ४२ ॥
तत्पट्टपङ्कजविकाशनपद्मबन्धुःजयात्कुवादिमुखकैरवपद्मबन्धुः । कान्त्या क्षमा तिमिरनाशन पद्मबन्धुः श्रीवादिभूषण (९३) गुरुजितपद्मबन्धुः ||४३||
यो नानागमशब्दतर्कनिपुणो जैनेन पैः पूजितः कर्णाट कलिकालगीतमसमो भट्टारकाधीश्वरः ॥ हेयाय विचार बुद्धिकलितो रत्नत्रयालंकृत्तः सः श्रीमान् शुभचन्द्रवद्धि श्रयते श्रीवादिभूष्यो गुरुः ||४४ || तत्पट्टपुष्पंकरभासनमित्रमूत्तिः कुज्ञानपङ्कपरितोषणमित्रमूत्तिः । निःशेषभव्यहृदयाम्बुजमित्रमूर्तिः
भट्टारको जगति भाति सुरामकीत्तिः (९४ ) ||४५॥ स्याद्वादन्यायवेदी हृतकुमत्तिमदस्त्यस्तदोषो गुणाब्धिः । श्रीमच्चिनुपवेत्ता विमलत रसुवाक् दिव्यमूर्त्तिः सुकीर्त्तिः ॥ साक्षाच्छ्रीशारदश्याः गच्छपतिगरिमा भूपवन्द्यो गुणज्ञः पायाद्भट्टारकोऽसौ सकलसुखकरो रामकीत्तिर्गणेन्द्रः ॥४६॥ शास्त्राभ्यासनिबन्धनादिषु पटुः रामादिकीत्तिस्ततस्तत्तपट्टे यशकीर्त्तिनाम सततं विभ्राजते धर्म्मभाक् । ध्यानाभ्यासकरः सुनिर्मलमनास्तर्कादिकाव्यामृतः भव्यानां प्रतिबोधनार्थनिपुणः सर्वकलायां रतः ॥४७॥
तत्पट्टपजविकाशनभानुमूर्तिविद्याविभूषित- समन्वित - बोधचन्द्रः । स्याद्वाद-शास्त्र-परितोषित - सर्वभूपो भट्टारकः समभवद्यशपूर्वकीर्त्तिः (९५) ॥४८॥ तत्पट्टवारिजविकाशनतिग्मरश्मिः पापानबोधतिमिर-क्षय- तिग्मरश्मिः
पायात्सुभव्य-भर-पश्चसुतिग्मरश्मिः श्रीपद्मनन्दिमुनिपो जिततिम्मरश्मिः ॥१४९॥
पट्टावली ३९७