________________
रो
पुष्पज्ञानकररतपोभवर नानान्यावरी यतीश्वतरो वादीन्द्रभूभृत्वसरुः । तत्पट्टोन्नतिकृन्निरस्तनिः कृतिः श्रीज्ञानभूषो (८८) यतिः पायाद्वो निहताहितः परमसज्जेनावनीशेः स्तुतः ||३४|| विजयकीर्ति (८९) यतिजितमत्सरो
विदितगीमट्टसारपरागमः । जयति तत्पदभासितशासनो निखिलतार्किकतर्फ विचारकः ||३५||
यः पूज्यो नृपमल्लिसेरवमहादेवेन्द्रमुख्यैनृपैः षट्सर्कागमशास्त्रकोविदमति श्रीप्रद्यशश्चन्द्रमाः । भव्याम्भोरुहभास्करः शुभकरः संसारविच्छेदकः सोऽव्याच्छ्रीविजयादिकीर्तिमुनियो भट्टारकाधीश्वरः || ३६ || तत्पट्टकेरवविकाशनपूर्णचन्द्रः स्याद्वादभाषितविबोधितभूमिपेन्द्रः ।
अव्याद्गुणात् सुशुमचन्द्र (९०) इति प्रसिद्धो रम्यान बहून् गुणवतो हि सुतत्वबोधः ||३७|| जायीत् षट्तर्कचंचुप्रवणगुणनिधिस्तत्पदाम्भोजभृङ्गः शुम्भद्वादीनकुम्भोद्भटविकटसटाकुण्ठकण्ठीरवेन्दुः । श्रीमत्सु सोभचन्द्रः स्फुटपटुविकटाटोपर्वकुण्ठसुनुः हन्ता चिद्रूपवेत्ता विदितसकल सच्छास्त्रसारः कृपालुः ||३८|| तत्पट्टचारूशतपत्रविकाशनेन पुण्यग्रवालघनवर्द्धनमेघतुल्य: १ व्याख्यामितावलिसुतोषित - भव्यलोको
भट्टारक: सुमतिकीत्तिं (९१) रतिप्रबुद्धः ||३९||
ज्ञात्वा संसारभावं विहितवरतपो मोक्षलक्ष्मी सुकांक्षी स्याद्वादी शान्तिमूर्त्तिमंदनमदहरो विश्वतत्वं कवेत्ता । सुज्ञानं दानमे सद्वित्तरति गुणनिधिर्मोहमातङ्गसिंहो जीयाद्भट्टारकोऽसौ सकलयतिपतिः श्रीसुमत्यादिकीप्तिः ॥४०॥ तत्पट्टतामरसरंजन भानुमूत्तिः स्याद्वादवादकरणेन विशालकीतिः । भाषासुघारससुपुष्टितभव्यवर्णो
भट्टारक: सुगुणकीर्त्ति (९२) गुरुगंणाः ॥ ४१ ॥
३९६ : तीर्थंकर महावीर और उनकी आचार्यपरम्परा