________________
तत्पट्टेऽजनि रत्नकीर्ति (७३) रनघः स्याद्वादविद्यांबुधिः । नानादेश- विवृत्तशिष्य निवहः प्राच्यांघ्रियुग्मो गुरुः ।। धर्माधर्मकथासुरक्त धिषणः पापप्रभाबाधको बालब्रह्म तपःप्रभावमहितः कारुण्यपूर्णाशयः ॥ २५॥ अस्ति स्वस्तिसमस्त सङ्घतिलकः श्रीनन्दिसंघोऽतुलो गच्छस्तत्र विशालकीर्तिकलितः सारस्वतीयः परः || तत्र श्रीशुभकीर्तिमहिमा व्याप्ताम्बरः सन्मतिः । जीयादिन्दुसमीरितः श्रीरतकी
||२६||
पट्टे श्रीरत्नकीत्तिरनुपमतपसः पूज्यपादीयशास्त्रः 1 व्याख्याविख्यात कीर्तिगणगणनिधिपः सत्क्रियाचारुचचुः ॥ श्रीमानानन्दवामप्रतिबुधनुतमामान संदायिवाद ! जीयादा चन्द्रतारं नरपतिविदितः श्रीप्रभाचन्द्र (८४) देवः ||२७|| श्रीमत्प्रभाचन्द्रमुनीन्द्रपट्ट शश्वत् प्रतिष्ठाप्रतिभागरिष्टः । विशुद्धसिद्धान्त रहस्य रत्नरत्नाकरो नन्दतु पद्मनन्दी (८५) ॥२८॥ हंसो ज्ञानमरालिका समसमाश्लेषप्रभूताद्भूता नन्दक्रीड़ति मानसेति विशदे यस्यानिशं सर्वतः ॥ स्याद्वादामृतसिन्धुवर्द्धनविधौ श्रीमत्प्रमेन्दुप्रभाः पट्टसूरिमतमल्लिका स जयतात् श्रीपद्मनन्दी मुनिः ||२९||
महाव्रतपुरन्दरः प्रशमदग्धरागाङ्कुरः स्फुरत्परमपौरुषः स्थितिरशेषशास्त्रार्थवित् ॥
यशोभरमनोहरीकृतसमस्तविश्वम्भरः
परोपकृतितत्परो जयति पद्मनन्दीश्वरः ||३०||
पद्मनन्दिमुनीन्द्रेण वंश-वाणी - वसुन्धरा सन्नयासपदवीन्यास पादन्यासेः पवित्रिता ॥३१॥
श्रीपद्मनन्दिपदपज भानुरुद्धो
जम्यो जिताद्भुतमदो विदितार्थबोध: ।। ध्वस्तान्धकारनिकटो जयतान्महात्मा भट्टारकः सकलकीत्तिरतिप्रसिद्धः (८६ ) ||३२|| सुयति भुवनकोति (८७) स्तत्पदाब्जाकंमूत्तिः परमतपसि निष्ठः प्राप्तसर्वप्रतिष्ठ: 1 मुनिगणनुतपादो निर्जितानेकवादः स्ववतु सकलसङ्खान् नाशिताऽनेकविध्नान् ॥३३॥
पट्टावली ३९५