________________
चूणि || येनेयमात्म-नामधेय-निक्तिरुक्ता नाम पृष्टवन्तं कृष्णराज प्रति ।।
गृहीत-पक्षादितरः परस्मात्तद्वादिनस्ते परवादिनस्स्युः । तेषां हि मल्लः परवादिमल्लस्तन्नाममन्नाम वदन्ति सन्तः ॥२९॥ आचार्यवर्यो यतिरायंदेवो राधान्त-कर्ता घ्रियतां स मूनि । यस्स्वर्ग-यानोत्सव-सीम्नि कायोत्सर्गास्थितः कायमदुत्ससर्ज ॥३०॥ श्रवण-कृत-तृणोऽसौ संयम ज्ञातु-कामै: शयन-विहित-वेला-सुप्तलुप्तावधानः । श्रुतिमरभसवृत्योन्मृज्य पिच्छेन शिश्ये किल मृदु-परिवृत्या दत्त-सत्कीटवा ॥३१11 विश्वं यश्श्रुत-बिन्दुनावरुरुधे भावं कुशाग्रीयया बुध्येवाति-महीयसा प्रवचसा बद्धं गणाधीश्वरैः । शिष्यान्प्रत्यनुकम्पया कृशमतीनेदं युगीनान्सुगीस्तं वाचार्चत चन्द्रकीति-गणिनं चन्द्राभ-कीति बुधाः ।।३१।। सद्धर्म-कर्म-प्रकृतिप्रणामाद्यस्योग्र-
वर्मप्रकृतिप्रमोक्षः । तन्मानिकर्म-प्रकृतिन्नमामो भट्टारकं दृष्ट-कृतान्त-पारम् ॥३३|| अपि स्व-वाग्व्यस्त-समस्त-विद्यस्त्रविद्यशब्देऽप्यनुमन्यमानः । श्रीपालदेवः प्रतिपालमीयस्सतां यतस्तत्व-विवेचनी धीः ॥३४॥ तीर्थ श्रीमत्तिसागरो गुरुरिला-चक्र चकार स्फुरज्योतिः पीत-तमर्पयः-प्रवित्ततिः पूतं प्रभूताशयः यस्माद्भरि परार्द्धय-पावन-गुण-श्रीवर्द्धमानोल्लसद्रत्नोत्पत्तिरिला-तलाधिप-शिरश्श्रृंगारकारिण्यभूत् ||३५॥ यत्राभियोक्सरि लघुल्लघु-धाम-सोम-सौम्यांगभृत्स च भवत्यपि भूति-भूमिः । विद्या-धनञ्जय-पदं विशदं दधानो जिष्णुः स एव हि
महा-मुनि हेमसेनः ॥३६।। चूणि ॥ यस्यायमवनिपति-परिषद्-निग्रह मही-निपात-भौतिदुस्थ-दुर्ग-पर्वतारुढ-प्रतिवादिलोकः प्रतिज्ञाश्लोकः ॥ तर्के व्याकरणे कृत- श्रमतया धीमत्तयाप्युद्धतो मध्यस्थेषु मनीषिषु क्षितिभृतामग्रे मया स्पर्खया । यः कश्चित्प्रतिवक्ति तस्य विदुषो वाग्मेय-भंगं परं कुर्वेऽवश्यमिति प्रतीहि नृपते हे हेमसेनं मतं ॥३७॥ हितैषिणां यस्य नृणामुदात्त-वाचा निबद्धा हित-रूप-सिद्धिः । वन्यो दयापाल-मुनिः स वाचा सिद्धस्सताम्मूर्द्धनि यः प्रभावः ॥३८॥
पट्टावली : ३७७