________________
प्रायश्चित्तमिवाङ्घ्रि-वारिज-रज-स्नानं च यस्याचरत् दोषाणां सुगतस्स कस्य विषयो देवाकलङ्कः कृत्ती ॥२०॥ चूण || यस्येदमात्मनोऽनन्य - सामान्य निरवद्य - विद्या- विभवोपवर्णनमाकण्यते ॥
राजन्साहसतुङ्ग सन्ति बहवः श्वेतातपत्रा नृपाः किन्तु त्वत्सदृशा रणं विजयिनस्त्या गोन्नता दुल्लभाः । त्वद्वत्सन्ति बुधा न सन्ति कवयो वादीश्वरा वाग्मिनो नाना -शास्त्र- विचारचातुरधियः काले कलौ मद्विधाः ||२१|| नमो मल्लिषेण - मलधारि देवाय ||
(पूर्वमुख)
राजन्सर्व्वारि-द-प्रबिदलन- पटुस्त्वं यथा प्रसिद्धस्तद्वख्यातोऽहमस्यां भुवि निखिल मदोत्पाटनः पण्डितानां । नो वेदेषोऽहमेते तव सदसि सदा सन्ति सन्तो महान्तो वक्तु ं यस्यास्ति शक्तिः स वदतु विदिताशेष-शास्त्रो यदि स्यात् ॥ २२॥ नाहङ्कार- वशीकृतेन मनसा न द्वेषिणा केवल
नैरात्म्य प्रतिपद्य नश्यति जने कारुण्य-बुद्धचा मया । राज्ञः श्रीहिमशीतलस्य सदसि प्रायो विदग्धात्मनो बौद्धोघान्सकलान्विजित्य सुगतः पादेन विस्फोटितः ||२३|| श्रीपुष्पसेन मुनिरेव पदम्महिम्नो देवस्य यस्य समभूत्स भवान्सधर्म्मा । श्रीविभ्रमस्य भवन्ननु देव पुष्पेषु मित्रमिह यस्य सहस्रधामा ||२४|| विमलचन्द्र मुनीन्द्र गुरोग्गुरुप्रशमिताखिलवादिमदं पदं ।
यदि यथावदवैष्यत पण्डितेन्तु तदान्ववदिष्यत वाग्विभोः ||२५|| चूणि । तथाहि । यस्यायमापादित- वरवादि-हृदय-शोकः पत्रालम्बन - इलोकः ||
पत्रं शत्रु- भयङ्करो भवन द्वारे सदा सञ्चरन्
नाना-राज- करीन्द्र-वृन्द-तुरंग - वाताकुले स्थापितम् । शैवान्पाशुपतांस्तथागत सुतान्कापालिकाकापिलानुद्दिश्योद्धत - चेतसा- विमलचन्द्रांशाम्बरेणादरात् ॥२६॥ दुरित-ग्रह- निग्रहाद्भयं यदि भो भूरि-नरेन्द्र- वन्दितम् । ननु तेन हि भव्यदेहिनो भजतश्श्रीमुनिमिन्द्रनन्दिनम् ||२७|| घट बाद घटा-कोटि-कोविदः कोविदां प्रवाक् । परवादिमल्ल- देवो देव एव न संशयः ||२८||
३७६ : तीर्थंकर महावीर और उनकी आचार्य परम्परा
F