________________
जयति विजयसेन: प्रास्तकन्दर्पसेनः तदनु मनुजवन्द्यः सर्वभावेरनिन्द्यः ||२३|| अधिगताखिलशास्त्र रहस्यहरू यमतजान मनागपि सेवितः । बहुतपश्चरणो मलधारिणो विजयसेनमुनिः परिवण्यते ॥२४॥ तत्पदृपूर्वाचलचण्डरश्मिमुं नीश्वरोऽभून्नयसेननामा । तपो यदीयं जगतां त्रयेऽपि जेगीयते साधुजनेरजस्रम् ||२५|| यद्यस्ति शक्तिर्गुणवर्णनायां मुनीशतुः श्रीनयसेनसूरेः । तदा विहायान्यकथां समस्तां मासोपवासं परिवर्णयन्तु ॥ २६ ॥ शिष्यस्तदोऽस्ति निरस्तदोषः श्रेयांससेनो मुनिपुण्डरीकः । अध्यात्ममार्गे खलु येन चित्तं निवेशितं सर्वमपास्य कृत्यं ||२७|| श्रेयांससेनस्य मुनेर्महीयस्तपः प्रभावाः परितः स्फुरन्ति 1 यद्दर्शनाद्दखिलं (?) प्रयाति दारिद्र्यमाशु प्रणतस्य (?) गेहात् ॥ २८ ॥ तत्पट्टवारी सुकृतानुसारी सन्मार्गचारी निजकृत्यकारी ! अनन्तकीतिम निपुंगवोऽत्र जीयाज्जगल्लोकहितप्रदाता ||२९|| अनन्तकोत्तिः स्फुरितोरुकीतिः शिष्यस्तदीयो जयतीह लोके । यस्याशये मानसवारितुल्ये श्रीजेनधम्मऽम्बुजवत्प्रफुल्लः ||३०||
प्रसमरवरकीर्तेः सर्वतोऽनन्तकीर्तः
गगनवसनपट्ट राजते तस्य पट्ट े । सकलजनहितोक्तिः जैनतत्वार्थवेदी
जगति कमलकीत्तिः विश्वविख्यात कीतिः ॥ ३१ ॥ जयति कमलकीत्तिः विश्वविख्यातकीत्तिः । प्रकटितयतिमूत्तिः सर्वसंघस्य पूर्तिः । यदुदयमहिमानं प्राप्य सर्वेऽप्यमानं दधति भविकलोकाः प्रीतिमुत्तानयोगाः ॥३२॥
अध्यात्मनिष्ठः प्रसरत्प्रतिष्ठः कृपावरिष्ठः प्रतिभावरिष्ठः । पट्टे स्थितस्य त्रिजगत्प्रशस्यः श्रीक्षेमकीर्तिः कुमुदेन्दुकीतिः ॥ ३३॥ तत्पट्टोदय भूघरेऽतिमत्ति प्राप्तोदयादुज्जय ।
रागद्वेषमदान्धकारपटलं सञ्चित्करैर्दारूपान् । श्रीमान् राजितहेमकीर्तितरणिः स्फीतां विकासश्रियं भव्याम्भोजचये दिगम्बरपथालङ्कारभूतां दधत् ||३४|| कुमुदविशदकीत्तिर्हेमकीत्ति (1) सुपट्टे विजितमदनमाय: शीलसम्परसहायः ।
६२ : तीयंकर महावीर और उनकी आचार्यपरम्परा