________________
मार्गदर्शक :- आचार्य श्री सुविधिसागर जी महाराज
२०१९ ]
दशमोऽध्यायः
३२५
परिणामशरीरो भविष्यति स गर्भाष्टमे वर्षे अर्ध चतुर्थारनिप्रमाणो भवति, तस्य च मुक्तिर्भवति । मध्ये नाना भेदावगाहनेन सिद्धिर्भवति । सिभ्यतां पुरुषाणां किमन्तरं भवतीति प्रश्ने निकृष्टत्वेन द्वौ समयौ भवतः उत्कर्षेण भ्रष्टसमया अन्तरं भवति । द्वावपि भेदौ जघन्यस्य । जघन्येन एकः समयः | उत्कर्षेण षण्मासा अन्तरं भवति । अथ कया सख्यया सिद्धयन्ति ? ५ जघन्येन एकसमये एकः सिद्धयति । उत्कर्षेण अष्टोत्तरशतसंख्या एकसमये सिद्धयन्ति । अथान्पबहुत्वमुध्यते— प्रत्युत्पन्ननयात् सिद्धिक्षेत्रे सिद्धयन्ति तेषामल्पबहुत्वं नास्ति । भूतपूर्व'नया विश्वायते क्षेत्रसिद्धा द्विप्रकारा: जन्मक्षेशतः संहरणक्षेत्रतश्च क्षेत्राणां विभागः कर्मभूमिरकर्मभूमिश्च । तथा क्षेत्रविभागः समुत्रद्वीपा ऊर्ध्वमवस्तिर्यक् च । तत्र ऊर्ध्वलोकसिद्धा अल्पे | अधोलोकसिद्धाः संख्येयगुणाः । तिर्यक लोकसिद्धाः संख्येयगुणाः । सर्वस्तोकाः १० समुद्रसिद्धाः । द्वीप सिद्धाः संख्येयगुणाः । पवमविशेषेण व्याख्यानम् । विशेषेण तु सर्वस्तोकाः लवणोदसिद्धाः । कालोदसिद्धाः संख्येयगुणाः । जम्बूद्वीप सिद्धाः संख्येयगुणाः । धातकीखण्डसिद्धाः संख्ये गुणाः । पुष्कर द्वीपार्थसिद्धाः संख्ये यगुणा इति । एवं कालादिविभागेपि परमागमानुसारेणाल्पबहुत्वं बोद्धव्यम् । तथाहि — कालविप्रकारः उत्सर्पिणी अवसर्पिण्यनुत्सपिण्यनवसर्पिणी चेति । तत्र सर्वतः स्तोकाः उत्सर्पिणीसिद्धाः । अवसर्पिणी सिद्धा विशेपा१५ धिकाः । अनुत्सर्पिण्यनवसर्पिणीसिद्धाः संख्येयगुणाः । ऋजुसूत्रनयापेक्षया तु एकसयये सिद्धयन्तीत्यल्पबहुत्त्वं नास्ति । गतिं प्रति विचार्यते - ऋजुसूत्रापेक्षया सिद्धगतौ सिद्धयन्तीति तत्राल्पबहुत्वं नास्ति । व्यवहारापेक्षयापि मनुष्यगतौ सिद्धयन्तीति तत्राप्यल्पबहुत्वं नास्ति । एकान्तरगतावल्पबहुत्वमस्तीति तद्विचार्यते । सर्वतः स्तोकाः तिर्यग्योन्यन्तरगतिसिद्धाः । मनुष्ययोन्यन्तरगतिसिद्धाः संख्येयगुणाः । नारक योन्यन्तरगतिसिद्धाः संख्ये यगुणाः । स्वर्ग२० योन्यन्तरगतिसिद्धाः संख्येयगुणाः । लिङ्गं प्रति अल्पबहुत्वं विचार्यते - ऋजुसूत्र
व्यवहार नयात्तु सर्वतः
नयापेक्षया अवेदात्सिद्धयन्तीति नास्ति अल्पत्वम् । स्थोकाः नपुंसक वेदसिद्धाः स्त्रीवेदसिद्धा: संख्येयगुणाः । पु'वेदसिद्धाः ' संख्येयगुणाः । तथा चोक्तम्—
"बीस णपुंसयवेया धीषेया वह य होंति चालीसा |
पुंवेया अडयाला समये गते सिद्धाय ॥" [
]
पबं तीर्थ चारित्रादिभेदैरप्यश्वबहुत्वं परमागमात्सिद्धम् ।
एषा तस्वार्थवृत्ति संचारयते शिष्येभ्यः उपदिश्यते च तेजिनवचनामृतस्वादिभिः पुरुषैः शृण्वद्भिः पठश्चि परम 'मुक्तिसुखामृतं निजकरे कृतं देवेन्द्रनरेन्द्रसुखं किमुच्यते ।
१ परमसुखा- आ०, ६० ज० ।