________________
९।३६ ]
नवमोऽध्यायः
३०९
आज्ञापायविपाकसंस्थान विश्वमार्यम् पार्या सुविधिसागर जी महाराज आज्ञाच अपायश्च विपाकश्च संस्थानच आज्ञा पायविपाकसंस्थानानि तेपां विचयन विचय आज्ञापायविपाक संस्थानयि चयस्तस्मै आज्ञापायविपाकसंस्थानविघयाय धर्म्यध्यानं भवति । किन्तद् धर्म्यध्यानम् ? स्मृतिसमन्वाद्दार : - चिन्ता प्रबन्धः । किमर्थं चिन्ताप्रयन्त्रः ? आज्ञाविपाकाय आज्ञाविचयाय आज्ञाविवेकाय आज्ञाविचारणायें । तथा अपायविजयाय ५ स्मृतिसमन्वाहारः धर्म्मध्यानं भवति । तथा विपाक विघयाय स्मृतिसमन्वाहारो
ध्यानं भवति । तथा संस्थानविचयाय स्मृतिसमन्वाहारो धर्म्मध्यानं भवति । कोऽसौ आज्ञाविचयः ? यथावदुपदेष्टुः पुरुषस्याभावे सति आत्मनश्च कर्मोदयान्मन्दबुद्धित्वे सति पदार्थानामतिसूक्ष्मत्वे सति हेतुदृष्टान्तानाञ्च उपर मे सति य आसन्नभव्यः सर्वज्ञप्रणीतं शास्त्रं प्रमाणीकृत्य सूक्ष्मवरत्वधं मन्यते अयं वरत्वर्थ इत्थ- १० मे वर्तते । इत्थं कथम् ? यादृशमर्थ जैनागमः कथयति सोऽर्थस्तादृश एवान्यथा न भवति " नान्यथावादिनो जिना:" [ ] इति वचनात् । अतिगह नपदार्थश्रद्धानेनार्यावधारणमाज्ञाविषय 'उच्यते । अथवा स्वयमेव विज्ञातवस्तुतत्त्वो विद्वान् तद्वस्तुतत्त्वं प्रतिपादयितुमिच्छुर्निजसिद्धान्ताऽविरोधेन तत्त्वस्य समर्थनार्थ तर्कनयप्रमाणयोज नपरः सन् स्मृतिसमन्त्राहारं विदधाति चिन्ताप्रबन्धं करोति | किमर्थं स्मृतिसमन्वाहारं करोति ? १५ सर्वक्षवीतरागस्याचा प्रकाशनार्थम् । सर्वज्ञवीतरागप्रणीततत्त्वार्थ प्रकटनार्थं स पुमान् आज्ञाविचयलक्षणं धर्म्यं ध्यानं प्राप्नोति । १ । मिथ्यादृष्टयो जन्मान्धसदृशाः सर्वज्ञवीतरागप्रणीतसन्मार्गपराङ्मुखाः सन्तो मोक्षमाकाङ्क्षन्ति तस्य तु मार्ग न सम्यक् परिजानते तं मार्गमतिदूरं परिहरन्तीति सम्मागविनाशचिन्तनमपायविंचय उच्यते । अथवा मिथ्यादर्शनमिथ्याज्ञानमिथ्याचारित्राणामपायो विनाशः कथमभीषां प्राणिनां भविष्यतीति स्मृतिसमन्वाहा- २० रोऽपायविषयो भण्यते । २ । ज्ञानावरणाद्यष्टककर्मणां द्रव्यक्षेत्रकालभवभावहेतुकं फलानुभवनं यज्जीवः चिन्तयति स विपाकविधयः समुत्पद्यते । ३ । त्रिभुवन संस्थानस्वरूपविचाय स्मृतिसमन्वाहारो संस्थानविचयो निगद्यते ।
ननु धर्म्यादनपेतं धर्म्यमिति भद्भरुक्तं तत्कोऽसौ धर्मो यस्मादनपेतं धर्म्यमुच्यते इति चेन ? उच्यते - उत्तमक्ष मामाई बार्ज व सत्यशौचसंयम तपस्त्यागाश्विन्यब्रह्मचर्य दशलक्षणो २५ धर्मः । निजशुद्धबुद्धैकस्वभावात्मभावनालक्षणश्च धर्मः । अगार्यनगरचारित्र धर्मः । सूक्ष्मवादर दिप्राणिनां रक्षणञ्च धर्मः । तदुक्तम
"धम्मो वत्सहावी खमादिभावो य दसविहो धम्मो ।
चारितं खलु धम्मो जीवाणं रक्खणं धम्मो ॥" [कत्ति० अ०गा० ४७६ ] तस्मादुक्तलक्षणाद्धर्मादनपेत्तम परियुतं ध्यानं धर्म्यमुच्यते । ईम्बिधं चतुर्विधमपि ३०
१ - यमुच्यते आ०, ३० ज० |