________________
३.८ मार्गदर्शक :- आचार्य श्री सुविहिवार्यवृत्ती महाराज
[ ९।३४-३५ ध्यानं भवतिं किन्तु निदानश्च चतुर्थमार्तध्यानं भवति, अनागतभोगाकाहालक्षणं निदानमुच्यते इत्यभिप्रायः । अथेतचतुर्विधमप्यातध्यानं कस्योत्पद्यते इति तस्य स्वामित्वसूचनार्थं सूत्रमिदमाहुः
नदचिरतदेशविरतप्रमत्तसंयतानाम् ॥ ३४ ॥ न विरता न व्रतं प्राप्ता अविरताः मिथ्याष्टिसासादनमिश्रासंयतसम्यग्दृष्टिगुणस्थामचतुष्यवर्तिनोऽत्रिरता उत्स्यन्ते । देशबिरताः संयतासंयताः, श्रारका इत्यर्थः । प्रमत्तसंयताचारित्राऽनुष्टाधिनः पञ्चदशप्रमादसहिता महामुनय उच्यन्ते । अविरताश्च देशविरताश्च प्रमत्तसंयताश्च अविरतदेशविरतप्रमत्तसंयतास्तेषामविरतदेशविरतप्रमत्तसंयतानां तत्पूर्वोक्तमात
ध्यानं भवति । तत्र आन्दगुणस्थानपञ्चकवर्तिनां चतुर्विधमप्यात सञ्जायते असंयमपरिणाम१८ सहितस्त्रात् । प्रमत्तसंयतानां तु चतुर्विधमप्यार्तध्यानं भवति अन्यत्र निदानात् । देशविरतस्यापि
निदानं न स्यात् सशल्यस्य अतित्याघटनात् । अथवा स्वल्पनिदानशल्येनाणुवतित्वाविरोधाद् देशबिरतस्य चतुर्विधमन्यात सान्छत एव । प्रमत्तसंयतानां त्वातंत्रयं प्रमादस्योदयाधिक्यात् कदाचिन् सम्भवति । अथ रौद्रध्यानस्य लक्षणं स्वामित्वं चक्रेनैव सूत्रेण सूचयितुं सूत्रमिदमाहुःहिंसाऽनृतस्तेयविषयसंरक्षणेभ्यो रौद्रमविरसदेश
विरतयाः ॥ ३५ । हिंसा च प्राणातिपातः अनृतश्चाऽसत्यभाषणं स्तेयश्च परद्रव्यापहरणं विषयसंरक्षणच इन्द्रियार्थभोगोपभोगसम्यकप्रतिपालनयत्न करणं हिंसानृतस्तेयविषयसंरक्षणानि तेभ्यः हिंसानृत
स्तेयविपनसंरक्षणेभ्यः । पञ्चमीबहुवचनमेतत् । एतेभ्यश्चतुभ्यो रौद्र रौद्रध्यानं समुत्पद्यते इति २० वाक्यशेषः । तद् रौद्रध्यानं हिंसामृतस्तेविषयसंरक्षणस्मृतिसमन्वाहारलक्षणमविरतदेशावर
तयोर्भवति पञ्चगुणस्थानस्वामिक्रमित्यर्थः। ननु अविरतस्य रौद्रध्यानं जाघटीत्येव देशविरतस्य तत्कथं सङ्गच्छते ? साधूक्तं भवता; य एकदेशेन विरतस्तस्य कदाचित् प्राणातिपातायभिप्रायान् धनादिसंरक्षणत्वाच्च कथं न घटसे परमयन्तु विशेषः-देशसंयतस्य रौद्रमुत्पद्यते एव परं नरकादिगतिकारणं तन्न भवति सम्यक्तवरत्नमण्डितत्वात् । तदुक्तम्
"सम्यग्दर्शनशुद्धाः नारकतिर्यङ्नपुंसकस्त्रीत्वानि । दुष्कुलविकृताल्पायुदेरिद्रताश्च व्रजन्ति नाप्यव्रतिकाः॥" [ रत्नक० श्लो० ३५] । प्रमप्तसंयतस्य तु रौद्रध्यानं न भवत्येव रौद्रध्यानारम्भे असंयमस्य सद्भावात् ।
'अधाय मोक्षकारणधर्म्यध्यानप्रकारलक्षणस्वामित्वादिनिर्देष्टुकामस्तत्प्रकारनिरूपणार्थ' सूत्रमिदमाह
१ तु तदातंत्रयम् ता० । २ असंयतस्य तद्भावात् आ., ६०, ज०। ३ अथाद्य मोक्षकारण धHध्यानलक्षणं स्वामित्वगिदमाहुः आ०, द., जा ।