________________
९।२६-२७ ] नवमोऽध्यायः
३०५ परप्रतारणोपहासादिनिमित्त यदि भवति तदा संवरार्थिका न भवति । परिझावार्थस्य एकाग्रेण मनसा यत्पुनः पुनरभ्यसममनुशीलनं सा अनुप्रेक्षा लक्ष्यते । अष्टस्थानोचारविशेषेण यच्छुद्धं घोषणं पुनः पुनः परिवर्तनं स आम्नायः कथ्यते । दृष्टादृष्टप्रयोजनमनपेक्ष्य उन्मार्गविच्छेदनार्थ सन्देहच्छेदनार्थमपूर्वार्थप्रकाशनादिकृते केवलमात्मश्रेयोऽर्थ महापुराणादिधर्मकथाशनुकथन धर्मोपदेश उच्यते । तदुक्तम्
"हितं ब्रूयात् मितं ब्रूयात् ब्रूयाद्धर्म्य यशस्करम् । प्रसङ्गादपि न ब यादधर्म्यमयशस्करम् ॥"[ ]
अस्य पञ्चविधस्यापि स्वाध्यायस्य च किं फलम् ? प्रज्ञातिशयो भवति प्रशस्ताध्यवसायश्च सजायते परमोत्कृष्टसंवेगश्वकास्ति । कोऽर्थः ? प्रवचनस्थितिर्जागर्ति तपोवृद्धिोभोति, अतिचारयिशोधनं वर्वति, संशयोच्छेदा जावटीति, मिथ्यावादिभयाद्यभावो भवति ।
अथ व्युत्सर्गस्वरूपनिरूपणं विधीयतेमार्गदर्शक :- आचार्य श्री सुविधिसागर जी महाराज
बाह्याभ्यन्तरापध्योः ॥ २६॥ बाह्यश्च अभ्यन्तरश्च बाह्याभ्यन्तरी, ता च तो उपधी परिग्रही बाह्याभ्यन्तरोपी तयोर्बाह्याभ्यन्तरोपध्योः । सम्बन्थे षष्ठीद्विवचनम् । तेनायमर्थः–बाह्यस्योपवेरभ्यन्तरस्य चोपघेव्युत्सर्गो म्युत्सर्जनं परित्यागो द्विविधो भवति । वास्तुधनधान्यादिरुपात्तो बाह्योपधिः । १५ कोपादिक आत्मदुष्परिणामोऽभ्यन्तरोपधिः । नियतकालो यावज्जीव वा शरीरत्यागः अभ्यन्तसेपधित्याग उच्यते । महाव्रते धर्म प्रायश्चित्ते अत्र च यद्यप्यनेकय.रान व्युत्सर्ग उक्तस्तथापि न पुनरुक्तदोषः', काचन् पुरुषस्य क्वचित् त्यागशक्तिरिति पुरुषशल्यपेक्षयाऽनेकत्र' भणनमुत्तरीत्तरोत्साहात्यागार्थ वा नेकत्र भणनं न दोषाय भवति । तस्य व्युत्सर्गस्य. कि फलम् ? निःसङ्गत्यं निर्भयत्वं जीविताशानिरासो दोषोच्छेदनं मोक्षमार्गभावनापरत्व- २० मित्यादि ।
अथ ध्यानं बहुवक्तव्यमिति यदुक्तं तस्य स्वरूपनिरूपणार्थ प्रबन्धो रच्यते। तत्र वायद ध्यानस्य प्रयोक्ता ध्यानस्वरूपं ध्यानकार्लानर्धारणं तत्त्रयं मनसि कृत्या सूत्रमिदमाहुराचार्या:
उत्तमसंहननस्यैकाग्रचिन्तानिरोधी ध्यानमान्तर्मुहुर्तात् ॥२७॥ २५
उत्तमसंहनन वर्षभवत्रनारत्ननाराचलक्षणं यस्य स उत्तमसंहननातस्योप्समसंहननस्पेत्यनेन भ्यानस्य कर्ता प्रोक्तः । एवंविधस्य पुरुषस्य ध्यानं भवति । किन्नाम ध्यानम् ? एकाग्र
-.-.- . - -.-- .-.
१-वक्ता दोषः भा०, ६०, ज० । २ मागे शक्तिः भा०, २०, जा। ३ -नेकशः , 4- T०, ०, ज०१४ धृत्वा भा०, व, ज | ५ ध्यानकर्ता भा०, १०, ज० ।