________________
९।२३] नबमोऽध्यायः
३०३ कर्तव्या । शुद्धस्याप्यशुद्धत्वेन यत्र सन्देहविपर्ययो भवतः, अशुद्धस्यापि शुद्धत्वेन वा यत्र निधयो भवति तत्र तनुभयमालोचनप्रतिक्रमण द्यं भवति । यद्वस्तु नियतं भवति तद्वस्तु
चेन्निजभाजने पति मुखमध्ये वा समायानि यस्मिन् वस्तुनि गृहीते वा कषायादिकमुत्पश्ते तस्य सर्वस्य वस्तुनरत्यागः क्रियते तद्रि वेकनाम प्रायश्चित्तं भवति । नियतकालं कायस्य वाचो मनसश्च त्यागो व्युत्सर्ग उच्यते । उपवासादिपूर्वोक्तं पविधं वाह्यं तपस्तपोनाम प्रायश्चित्तं ५ भवति । दिवसपक्षमासादिविभागेन दीक्षाहापनं छेदो नाम प्रायश्चित्तं भवति । दिवसापक्षमासादिविभागेन दूरतः परिवर्जन परिहारो नाम प्रायश्चित्तं भवति । महानतानां मूललछेद्नं विवाय पुनरपि दीक्षाप्रापणम् उपस्थापना नाम प्रायश्चित्तं भवति । अनाचार्यमपृष्ट्या आतापनादिकरणे आलोचना भवति मार्गदुर्गकिपिच्छ्यादि की रहिविख्यास्येचनी पहम्मलि। परोक्षे प्रमादतः आचार्यादिवचनाकरणे आलोचना भवति । आचार्यममाट्या आचार्यप्रयोजनेन गत्वा १० आगमने आलोचना भवन्ति । परसङ्घमपृष्ट्वा स्त्रसंघागमने आलोचना भवति । देशकालनियमेन अवश्यकतव्यस्य व्रतविशेषस्य धर्मकथादिव्यासङ्गेन बिस्मरण सति पुनःकरणे आलोचना भवति । सर्वविवेऽन्यस्मिन् कार्यस्खलने आलोचनंच प्रायश्चित्तं भवति । पश्चिन्द्रियेषु 'वागादिदुःपरिणामे प्रतिक्रमणं भवति । आचार्यादिपु हस्तपादादिसंघट्टने प्रतिक्रमणं भवति । व्रतसमितिगुप्तिषु स्वल्पातिचारे प्रतिक्रमणं भवति । पेंशुन्यक- १५ लहादिकरणे प्रतिक्रमणं भवति । बयावृत्त्यस्वाध्यायादिप्रमादे प्रतिक्रमणं भवति । गोयरगतस्य कामलतोत्याने प्रतिक्रमणं भवति । परसंक्लेशकरणादौ च प्रतिक्रमणं भवति । दिवसराध्यन्ते भोजनगमनादौ आलोचनाप्रतिक्रमणद्वयं भवति । लोचनखच्छेदस्वप्नेन्द्रियातिचाररात्रिभोजनेषु उभयम् । पक्षमासचतुर्माससंवत्सरादिदोषादौ चोभयं भवति । मौनादिना बिना लोचविधाने व्युत्सर्गः। उदरकृमिनिर्गमे व्युत्सर्गः। हिममसकादिमहाबातादिसंह- २ पातिचारे व्युत्सर्गः । आर्द्रभूम्युपरि गमने व्युत्सर्गः । हरितवृणोपरि गमने व्युत्सर्गः । कर्दमोपरि गमने न्युत्सर्गः । जानुमानजलप्रवेशे व्युत्सर्गः। परनिमित्तयस्तुनः स्थोपयोगविधाने व्यु. सर्गः। नावादिना नदोतरण व्युत्सर्गः। पुस्तकपतने व्युत्सर्गः । प्रतिमापननेव्युत्सर्गः । पञ्चस्थावरविघा नाइष्टदेशतनुमलविसर्गादिषु व्युत्सर्गः। पक्षादिप्रतिक्रमणक्रियान्त व्याख्यानप्रवृत्त्यन्तादिषु व्युत्सर्गः, एवमुच्चारप्रश्रवणादिषु च प्रसिद्धो व्युत्सर्गः । एवमुपवा- २५ सादिकरणं छेदकरणं परिहारकरणमुपस्थापनाकरणं सर्वमेतत्परमागमाद् वेदितव्यम् । नवधिप्रायश्चित्तफलं तावत् भावप्रासा"दममनवस्थाया अभावः शल्यपरिहरणं धर्मदायोदिकश्च वेदितव्यम् । अथ विनयभेदानाह
ज्ञानदर्शनचारित्रोपचाराः ॥ २३ ॥
१ वागांदा प--30, दल, ज | 5 -सव्याख्वा- आ०, २, ० | ३ एवं प्रायश्मिसमुन्बार-ना४-सर्ग गय ता । ५-प्रसादनम् आ०, दर, ज.!