________________
३०० तत्त्वार्थवृत्ती
९।११ प्रोषधोपवासेत्यधिकारे प्रोक्तमेव । 'अपरेषां चतुर्णा लक्षणं कथयिष्यामः । तत्र सामायिक द्विप्रकारम्-परिमितकालमपरिमितकालनेति । स्वाध्यायादौ सामायिकमहर्ण परिमित्तकालम् ।
ईपिथावावपरिमितकालं वेदितव्यम् । प्रमादेन कृतो योऽत्यर्थः प्रबन्धो हि हिंसादीनाममार्गदर्शनामवृक्षावार्यतस्वी जिलोपोसमयाजीमागेज सम्यगागमोक्तविधिना प्रतिक्रिया पुनर्वता५ रोपणं छेदोपस्थापना, छेदेन दिवसपक्षमासादिप्रतज्याहापनेनोपस्थापना व्रतारोपणं छेदोपस्था
पना । सकल्पविकल्पनिषेधो वा छेदोपस्थापना भवति। परिहरणं परिहारः प्राणिनित्तिरित्यर्थः। परिहारेण विशिष्टा शुद्धिः २कर्ममलकलङ्कप्रक्षालनं यस्मिन् चारित्रे तत्परिहारषिशुद्धिः चारित्रमिति वा विप्रहः। तल्लक्षणं यथा-द्वात्रिंशद्वर्षजातस्य बहुकालतीर्थकरपादसेविनः प्रत्याख्याननामधेयनवमपूर्वप्रोक्तसम्यगाचारवेदिनः प्रमादरहितस्य अतिपुष्कर१० चर्यानुष्ठायिनस्तिस्रः सन्ध्या वर्जयित्वा द्विगम्यूतिगामिनो मुनेः परिहारविशुद्धिचारित्रं भवति । तथा चोक्तम् --
"पत्तीसवासजम्मो वासपुर च तिस्थयरमूले ।
पञ्चकखाणं पढिदो संझूणदुगाऊअविहारो॥" [ ]
त्रियर्षादुपरि नवघर्षाभ्यन्तरे वर्षपृथक्त्वमुच्यते। अतीव सूक्ष्मलोभो यस्मिन चारित्रे तम् १५ सूक्ष्मसाम्परायं चारित्रम् । सर्वस्य मोहनीयस्योपशमः भयो वा वर्तते यस्मिन् तत् परमौदासीन्यल
क्षणं जीवस्वभावदशं यथाख्यातचारित्रम् । यथा स्वभावः स्थितस्तथ वाख्यातः कथित आत्मनो यस्मिन् 'चारित्रे तद् यथाख्यातमिति निरुक्तेः । यथाख्यातस्य अथाण्यातमिति च द्वितीया संज्ञा वर्तते । तत्रायमर्थः-चिरन्तनचारित्रविधायिभिर्यदुत्कुष्ठं चारित्रमाख्यातं कथितं तादृशं चारित्रं
पूर्व जीवेन न प्राप्तम्, अथ अनन्तरं मोहक्षयोपशमाभ्यां तु प्राप्तं यच्चारित्रं तत् अथाख्यास२० मुच्यते । सामायिकाच्छेदोपस्थानाचारित्रं गुणः प्रकृष्टं छेदोपस्थापनाचारित्रात् परिहारविशुद्धि
चारित्रं गुणः प्रकृष्ट परिहारविशुद्धिचारित्रात्सूक्ष्मसाम्परायचारित्रं गुणः प्रकृष्टं सूक्ष्म साम्परायचारित्रात् यथाख्यातचारित्रं गुणः प्रकृष्टं तेन कारणेनोत्तरगुणप्रकर्षज्ञापनार्थं सामायिकादीनामनुक्रमेण वचनम् ।
__ अथ संवरस्य निर्जरायाश्च हेतुभूतस्य तपसः स्वरूपनिरूपणार्थं प्रबन्धोरच्यते । तत्तपो २५ द्विप्रकारम्-बाह्यमाभ्यन्तरश्च । तत्र बाह्यं षट्प्रकारमाभ्यन्तरश्च षट्प्रकारम् । तत्र बाह्यषटप्रकारस्य तपसः सूचनार्थ सूत्रमिदमुच्यते भगवद्भिःअनशनावमौर्यधृत्तिपरिसङ्ख्यानरसपरित्यागविविक्तशय्यासन
कायक्लेशा बाह्यं तपः ॥ १९ ॥ १ परेषाम् आ०, २०, य० । २ कर्मफल- आ०, व, ज० । ३ “तीस वासो जन्मे वासांधत्तं च तित्थयरमूले । पच्चस्खाणं पदिदो संझूणदुगाऊयविहारो ।।" -गो० जी० गा० ४७२ । त्रिंशद्वर्षजन्मा वर्षपृथक्त्वं खलु तीर्थकरमूले। प्रत्याख्यानं पटितः संध्योनद्विगव्यूतिविहारः ॥ ४ तथैव ख्यातः भा०, २०, ० । ५ सूच्यते ता।