________________
९।१५.१८]
नमोऽध्यायः
वेदनीय शेषाः ॥ १६ ॥ वेदनीये कमणि सति शिष्यन्ते ध्रियन्ते इति शेपा एकादश परीपहा भवन्ति "ज्ञानावरणे प्रज्ञाज्ञाने" [२० स० ९ । १३ ] इति शो परीषहायुक्तौ । “दर्शनमोहान्तराययोदर्शनाला भी तिचाळू-श्री विइिलिमिनबहारकारित्रमोहे नाग्न्यारतिस्त्रीनिषद्याक्रोशयाचनासत्कारपुरस्काराः' [तः सू० ५।१५ ] इति सप्त परीपहाः सम्भाषिताः, ५ एवं सूत्रत्रयेण समुदिता एकादशोक्तास्तेभ्यो ये उधारतास्ते शेषा इत्युच्यन्ते । ते के क्षुत्पिपासाशीतोष्पदंशमशकचर्याशय्यावधरोगसृष्णस्पर्शमलसंज्ञका एकादश परीपहाः वेदनीय भवन्ति जिने योजिता इत्यर्थः ।
अथ पूर्वोक्ताः परीपहा एकस्मिन् पुरुषे युगपत् कति भवन्तीति प्रश्ने सूत्रमिदमुच्यते स्वामिना
एकादया भाज्या युगपदेकस्मिन्कान्नविंशति': (ते)॥१७॥
एक आदिपा ते एकादयः । कस्मिंश्चिदात्मनि एकः परीषद्दो कस्मिंश्चिद् द्वौ कमिश्चित्त्रयः इत्यादिकृत्वा एकोनविंशतिपर्यन्तमेकस्मिन्नामान युगपत् समकालं भवन्तीति भाज्याः यथासम्भवं योजनीयाः। अत्र आ एकान्नविंशतिरिति शब्दो वर्तते स तु आङ् अभिविध्यर्थः। अभिविधिरिति कोऽर्थः ? अभिव्याप्तिः । एकोनविंशतिमभिव्याप्येत्यर्थः । कथम् ? शीतोष्ण- १५ परीषड्योमध्ये अन्यतरो भवति शीतगुष्णो घा। शय्यापरीपहे सति निषद्याचर्ये न भवतः, निपद्यापरीपहे शय्याचर्य द्रो न भवतः, चर्यापरीपहे शल्यानिषद्ये द्वौ न भवतः । इति त्रयाणामसम्भवे एकान्नविशतिरेकस्मिन् युगपद् भवति । ननु प्रज्ञाज्ञाने परस्परविरुद्ध तत्राप्येकत्य हानिः कथं न भवति ? साधूक्तं भवता; श्रुतज्ञानापेक्षया प्रशामद उत्पद्यते अवधिमनःपयकेवलज्ञानापेक्षया अज्ञानपरीपहोऽपि भवतीति को विराधः ।
अथ गुप्तिसमितिधर्मानुप्रेक्षापरीपहजयलक्षणाः पञ्च संवर हेतव उक्ताः । इदानी चारित्रं संघरहेतुर्वक्तव्यस्तछेदपरिज्ञानार्थ योगोऽयमुद्यतेसामायिकच्छंदोपस्थापनापरिहारविशुद्धिसमसाम्प
राययथाख्यानमिति चारित्रम् ॥१८॥ सामाविकछ छेदोपस्थापना च परिहारविशुद्धिश्च सूक्ष्मसाम्परायश्च यथाख्यातञ्च २५ सामायिकच्छेदोपस्थापनापरिहारविशुद्रिसूक्ष्म साम्परायथास्यानम् । समाहारो द्वन्धः । एतत्सामाथिकादिकं पञ्चकं चारित्रं भवतीति वेदितव्यम् । इति शब्दः समाप्त्यर्थं वर्तते तेन यथाख्यातेन चारित्रेण परिपूर्णः कर्मक्षयो भवतीति ज्ञातव्यम् । यद्यपि दशलाक्षणिके धर्मे यः संयम उक्तः स चारित्रमेव तथाप्यत्र पर्यन्ते चारित्रनिरूपणं साक्षात्परमनिर्वाणकारणं चारित्रं भवतीति ज्ञापनार्थ येदितव्यम् । तत्र सामायिकस्य लक्षणं दिग्देशानर्थदण्डविरतिसामायिक- ३०
१ एकोनविंशतिः भा०, ८०, जा।