________________
नवमोऽध्यायः
२५५
भानुसब्जनितपरितापसमुत्पन्नप्रस्वेदवशम हदानी तपांशुनिचयोऽपिं किलासकच्छूद्र कण्डूया - दि विकारे समुत्पन्नेऽपि सङ्घट्टनप्रमर्दनकण्डूयनादिकं तदुत्पन्नजन्तुपीडापरिहारार्थं न करोति, ममाझें मलं वर्तते अस्य भिक्षोरने की नैर्मल्यं वर्तत इति सङ्कल्पनं न करोति, अवगमचरित्रपूतपानीयप्रधावनेन कर्ममलक मापनयनार्थं च सदेवोद्यतमतिर्भवति केशलोचासंस्कारखेदं न गणयति स मुनिर्मलपरीषहस हनशीलो भवति । १८ । यो मुनिः ५ पूजनप्रशंसनात्मके सत्कारे क्रियारम्भाथमतः करणामन्त्रणालक्षणे पुरस्कारे केनाप्यविहिते सति एवं मनसि न करोति यदहं चिरतरतपस्वी महातपोऽनुष्ठाता च स्वसमय पर समयनिर्णयविधायकः अनेकवार परवादिविजयी ईदृशस्यापि मम न कश्चित् प्रणामं करोति न कोपि
प
९॥१]
विधानापि सम्भ्रमं सृजति नाप्यासनादिप्रदानं विधत्तं वरं मिध्याष्टयो शादर्शक :- आचार्य श्री सुविधिसागर जी महाराज शाखमपि निजपक्षीय तपस्विनं गृहस्थं चाती भक्तिमन्तः सकलञ्चसम्भावनेन सम्मानयन्ति १० निजसमयप्रभावनार्थं नैते तत्त्वज्ञानपरा अपि परमाहताः, वरं व्यन्तरादयः किल पूर्वमतितीत्रतपसां झटिति चच्चनं कुर्वन्तीति श्रुतिर्मिथ्या वर्तते, यदि न मिथ्या तर्हि माशानां तपस्विनां पूजादिकं व्यन्तरादयः किमिति न कुर्वन्तीति दुर्थ्यानपरो न भवति स मुनिः सत्कार पुरस्कारपरीसहनशीलो भवति । १४ । यो मुनिस्तर्कव्याकरणच्छन्दोल 'ङ्कारसारसाहित्याध्यात्मशास्त्रादिनिधानाङ्ग पूर्व प्रकीर्णकनिपुणोऽपि सन् ज्ञानमदं न करोति, ममामतः प्रवादिनः सिंह- १५ शब्दश्रवणात् वनगजा इव पलायन्ते भास्करप्रभायां ज्योतिरिङ्गणा इव न प्रभासन्ते इति च मदं नाते स मुनिः प्रज्ञापरीष विजयी भवति । २० । यो मुनिः सकलशास्त्रार्थसुवर्णपरीक्षाकपपट्टसमानधिषणोऽपि मूर्खोरसहिष्णुभिर्वा मूर्खोऽयं बलीवर्द इत्याद्यवक्षेपचचनमा प्यमानोऽपि सहते, अत्युत्कष्टदुश्वरतपोविधानच विधत्ते, सदा अप्रमत्त चेताश्च सन् ब्रह्मवर्चसं नापेक्षते स मुनिद्दज्ञानपरीषद्दजयं लभते । २१ । यो मुनिरत्युत्कृष्टवैराग्यभावनाविशुद्धान्तरङ्गो भवति, विज्ञात- २० समस्तवस्तुतत्त्वश्च स्यात्, जिनायतनत्रिविधसाधुजिनधर्म पूजनसम्माननतम्निष्ठो भति, चिरदीक्षितोऽपि सन्नैवं न चिन्तयति अद्यापि ममातिशयबद्बोधनं न सब्जायते उत्कृश्रुतव्रतादिविघायिनां किल प्रातिहार्यविशेषाः प्रादुर्भवन्ति इति श्रुतिमिथ्या वर्तते दीक्षेयं निष्फला व्रतधारण फल्गु एव वर्तते इति सम्यग्दर्शनविशुद्धिसन्निधानादेवं न मनसि करोति तस्य मुनेरदर्शनपरीषड्जयो भवतीत्यवसानीयम् | २२ । इत्थं सङ्कल्पप्राप्तान् परपद्दान् सल्किष्ट २५ चेताः क्षममाणः रागद्रेषमोहादिपरिणामोत्पन्नास्रव निरोधे सति महान्तं संवरं लभते ।
अथामी परिषदाः भवारण्यमतिकमितुमुद्यतस्य मुनेः किं सर्वे भवन्ति आहोवित् किमस्ति कचिद् विशेषः इति प्रश्ने सति उत्तरं दीयते । एते पूर्वोक्तलक्षणद्वाविंशतिपरीपहाचा
१ - बहशीलो ता० २वातीय आ०, ब० ज० । ३ लङ्कारसादि भ० द०, १० । ४ - पदसमानाधिकरणोऽपि ज० | पदज्ञानाधि- द०