________________
मार्गदर्शक :- आचार्य श्री सुविधिसागर जी महाराज
अष्टमोऽध्यायः
950
अथेदानीम् आस्रवपदार्थ सूचनानन्तरं बन्धपदार्थं सूचयन्ति सूरयः । स तु बन्धः निजतुपूर्वको भवति, अत एवादौ बन्धहेतून् पञ्चप्रकारान् प्रतिपादयन्ति-
मिथ्यादर्शनाविरतिप्रमादकषाययोगा बन्धहेतवः ॥ १ ॥
मिथ्यादर्शनं तावदुक्तमेव | कस्मिन् स्थाने उक्तम् ? “तत्स्वार्थश्रद्धानं सम्यग्दर्शनम् " ५ [ त० सू० १२ ] इत्यस्मिन् सूत्रे सम्यग्दर्शन सूचनेन तत्त्वार्थानामश्रद्धानलक्षणं सम्यग्दर्श नस्य प्रतिपक्षभूतं मिथ्यादर्शनं सूचितमेव ज्ञातव्यम् । तथा च "इन्द्रियकपायात्रतक्रियाः पञ्चचतुःपञ्चपञ्चविंशतिसङ्ख्याः पूर्वस्य भेदा:" [ त० सू० ६।५ ] इत्यस्मिन् सूत्रे पश्चविंशतिक्रियानिरूपणावसरे मिथ्यादर्शनक्रियानिरूपणेन मिध्यादर्शनं सूचितं भवति । “हिंसाऽनृतस्तेयाब्रह्मपरिग्रहेभ्यो विरतिर्व्रतम्” [ त० सू० ७/१ ] इत्यस्मिन् सूत्रे व्रतप्रति१० पक्षभूता अविरतिरपि सूचिता भवति । पुण्यकर्मस्वनादरः प्रमाद उच्यते । आज्ञाव्यापादनक्रिया अनाकाङ्क्षाक्रिया एते द्वे क्रिये पञ्चविंशतिक्रियासु यदा सूचिते तदा प्रमादोऽपि सूचितो भवति तयोः प्रमादेऽन्तर्भावात् । " इन्द्रियकषायावत क्रियाः “पञ्चचतुःपश्चपञ्चविंशतिसङ्ख्याः पूर्वस्य भेदा:" [ त० सू० ६१५] अस्मिन्नेव सूत्रे कषाया अपि अनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानसंज्ञलनविकल्पाः प्रोक्ता भवन्ति । "कायवाङ्मनः कर्म१५ योगः " [ त० सू० ६ । १ ] इत्यस्मिन् सूत्रे योगोऽपि निरूपित एव वेदितव्यः । तत्र मिथ्यादर्शनं द्विप्रकारं भवति नैसर्गिकपरोपदेशपूर्वकभेदात् । तत्र नैसर्गिकं मिथ्यादर्शनं मिथ्यात्वकर्मोदयात् तत्त्वार्थानामश्रद्धानलक्षणं परोपदेशं विनापि समाविर्भवति । अत्र मरीचिर्भरतपुत्रो दृष्टान्ततया वेदितव्यः । परोपदेशपूर्वकं मिध्यादर्शनं चतुःप्रकारं ज्ञातव्यं क्रियावादि-अक्रियावादि-अज्ञानिकवैकिभेदात् । एकान्त विपरीत संशय-विनय-अज्ञानभेदात् पञ्चविधश्च मिथ्यादर्शनं भवति । २० तत्र इदमेव इत्थमेवेति धर्मिधर्मयोर्विषयेऽभिप्रायः पुमानेवेदं सर्वमिति नित्य एवानित्य एबेति वाऽभिनिवेश एकान्तमिध्यादर्शनम् । १ । सपरिग्रहो निष्परिग्रहः पुमान् वा स्त्री वा कवलाहारी केवली भवतीति विपरीतमिथ्यादर्शनं विपर्ययमिध्यादर्शनापरनामकम् । तदुक्तम्---
""सेयंवरो य आसंवरो य बुद्धो य तह य अण्णो य । समभावभावियप्पा लहेइ मोक्खं ण संदेहो ||"
१ - प्रमादान्तर्भावात् आ० ज० ५० १ - पूर्वमेदात् आ० ज० द० । २-देशनं विना-आ० ज० द० । ३ : वेताम्बरच आशाम्बरध बुद्धध तथा चान्यश्च । समभावभावितात्मा लभते मोक्षं न सन्देहः ॥