________________
मार्गदर्शक :- आचार्य श्री सुविधिसागर जी महाराज सप्तमोऽध्यायः
२५७
७३९]
अन्यादृशकारणम् । दाता द्विजनृपवणिश्वर्णवर्णनीयः, तस्य विशेषः - पात्रे ऽनसूया त्यागे. विषादरहितः दित्सत्-ददत् दत्तवत्प्रीतियोगः शुभपरिणामः दृष्टफलानपेक्षकः । तथा चोक्तम्"श्रद्धा तुष्टिर्भक्तिर्विज्ञानमलुब्धता क्षमा शक्तिः ।
यत्रैते सप्तगुणास्तं दातारं प्रशंसन्ति ॥ १ ॥” [ यश० उ० पृ० ४०४ ] पात्रम् — उत्तममध्यम जघन्यभेदम् । तत्रोत्तमं पात्रं महाव्रतविराजितम् । मध्यमं पात्रं ५ श्रावकव्रतपवित्रम् । जघन्यं पात्रं सम्यक्त्वेन निर्मलीकृतम् । त्रिविधमपि पात्रमुत्तममिति केचित् । तस्य विशेषः सम्यग्दर्शनादिशुद्धयशुद्धी । विधिश्च द्रव्यश्च दाता च पात्रश्च विधिद्रव्यदातृपात्राणि तेषां विशेषः विधिद्रव्यदातृपात्रविशेषः तस्माद्विधिद्रव्यदातृपात्रविशेषात् । तद्विशेषः तस्य दानस्य पुण्यफलविशेषस्तद्विशेषः । तथा घोक्तम्
" क्षितिगतमिव वटवीजं पात्रगतं दानमल्पमपि काले ।
१०
फलति च्छायाविभवं बहुफलमिष्टं शरीरभृताम् ||" [ रत्नक० ४।२६ ] इति सिद्धिः ।
"इति सूरिश्रीश्रुतसागरविरचितायां तात्पर्यसंज्ञायां तत्त्वार्थवृत्तौ सप्तमः पादः समाप्तः ।
दु० । इत्यनवद्यगद्यपद्यविद्या१ इति श्रुतसागरसूरिणा विरचितायां तत्त्वार्थटीकायां सतर्कव्याविनोदितप्रमोदपीयूषरसपानपावनम तिसभा जर राजमतिसागर यतिराजराजितार्थन समर्थेन
करणछन्दोलङ्कारसाहित्यादिशास्त्रनिशितमतिना यतिना
च सकलविद्वज्जनविहितचरणसेवस्य
श्रीमद्देवेन्द्र कीर्ति भट्टारकप्रशिष्येण शिष्येण विद्यानन्दिदेवस्य संच्छर्दितमिथ्यामतदुर्गरेण श्रुतसागरेण सूरिणा विरचितायां श्लोक वार्तिकरा जवार्तिकसर्वार्थसिद्धि न्यायकुमुदचन्द्रोदयप्रमेय कमलमार्तण्डप्रचण्ड ष्टसहस्रीप्रमुखग्रन्थसन्दर्भनिर्भरावलोकन बुद्धिविराजितायां तत्त्वार्थटीकायां
सप्तमोऽध्यायः समाप्तः
॥७॥ आ०, ब० ।
३३