________________
तार्थवृत्त
[ ७२८
२५०
तदाहृतादानम् । बहुमूल्यानि वस्तूनि अल्पमूल्येन नैव गृहीतच्यानि, अल्पभूल्यानि वस्तूनि बहुमूल्येन नैव दातव्यानि । राज्ञ 'आज्ञाधिकरणं यदविरुद्धं कर्म तद् राज्यमुच्यते । उचितमूल्यादनुचितं दानम् अनुचितं ग्रहणञ्च अतिक्रम उच्यते । विरुद्ध राज्ये अतिक्रमः विरुद्धराज्यातिक्रमः । यस्मात्कारणात् राज्ञा घोषणा अन्यथा दापिता दानमादानं च अन्यथा करोति स ५ विरुद्धराज्यातिक्रमः । अथवा, राजघोषणां विनापि यहणिजो व्यवहरन्ति तं व्यवहारं यदि
राजा तथैव मन्यते तदा तु विरुद्धराव्यातिक्रमा न भवति । प्रस्थः चतुः सेरमानम्, तत्काष्टा दिना घटितं मानमुच्यते, उन्मानं तु तुलामानम् मानं चोन्मानञ्च मानोन्मानम्, एताभ्यां न्यूनाभ्यां ददाति अधिकाभ्यां गृहाति हीनाधिकमानोन्मानमुच्यते । तात्रेण वटिंता रूप्येण च सुवर्णेन घटिता ताम्ररूप्याभ्यां च घटिता ये द्रम्माः तत् हिरण्यमुच्यते, तत्सदृशाः केनचित् लोक१० वचनार्थं घटिता द्रम्माः प्रतिरूपका उच्यन्ते, तैव्र्व्यवहारः क्रयविक्रयः प्रतिरूपकव्यवहारः कथ्यते । प्रयोगश्च तदाहृतादानं च तेनानीतग्रहणम् - विरुद्धराज्यातिक्रमश्च हीनाधिकमार्गदर्शक:- आचार्य श्री. सविधिसागर जी महाराज मानोन्मानच प्रतिरूपकव्यवहारश्च स्तेनप्रयागत दाहतादानविरुद्ध ज्योतिकमहीनाधिकमा नोन्मानप्रतिरूपकव्यवहाराः । एते पश्चातिचारा अचौर्याणुत्रतस्य भवन्ति ।
अवान ब्रह्मचर्यस्य पञ्चाविचारानाह -
परचियाकरणत्वरिकापरिगृहीताऽपरिगृहीतागमनानङ्गक्रीडा
कामतीवाभिनिवेशाः
२८ ॥
कन्यादानं विवाह उच्यते परस्य स्वपुत्राद्विकादन्यस्य विवाहः परविवाहः, परविवाहस्य करणं परविबाहकरणम् । एवि गच्छति परपुरुषानित्येवं शीला इत्वरी, कुत्सिता इत्वरी इत्वरिका । एकपुरुषभर्तृका या स्त्री भवति सधवा विधवा वा सा परिगृहीता सम्बद्धा २० कथ्यते । या 'याराङ्गनात्वेन पुंश्चलीभावेन्द्र वा परपुरुषानुभवनशीला निःस्वामिका सा अपरिगृहीता असम्बद्धा कथ्यते । परिगृहीता च अपरिगृहीता च परिगृहीवाऽपरिगृहीते, इत्यरिके च ते परिगृहीतापरिगृहीते इत्वरिकापरिगृहीताऽपरिगृहीते, इत्वरिकापरिगृहीताऽपरिगृहीतयोगमने प्रवृत्तीद्वे इत्यरिकापरिगृहीताऽपरिगृहीतागमने । गमने इति कोऽर्थः ? जघनस्तनवदनादिनिरीक्षणं" सम्भाषणं पाणिचक्षुरन्तादिसन्ज्ञाविधानमित्येवमादिकं निखिलं रागित्वेन २५ तुश्चेष्टितं गमनमित्युच्यते । अङ्गं स्मरमन्दिरं स्मरलता च ताभ्यामन्यत्र करकक्ष कुचादिप्रदेशेषु क्रीडनमनङ्गक्रीडा कथ्यते । न अङ्गाभ्यां क्रीडा अनङ्गक्रीडेति विग्रहात् । कामस्थ कन्दर्पस्य तीव्रः प्रवृद्धः अभिनिवेशः अनुपरतप्रवृत्तिपरिणामः कामतीत्राभिनिवेशः, यस्मिन् काले स्त्रियां प्रवृत्तिका तस्मिन्नपि काले कामतीत्राभिनिवेश इत्यर्थः । दीक्षिताऽवित्रालातिर्यग्योन्यादिगमनमपि कामती ग्राभिनिवेश इत्यर्थः । परविवाह करणञ्च इत्वरिकापरिगृहीवा
१ राशा आशादिक-आ०, ब० ज० । २ - चितादा आ०, ब० ज० ३ द्रम्नाः अह०, ब०, अ० । ४ वशनात्वेन भा०, ब० ज० । ५ - क्षणसंभाषणपा ता० ३ अनका- आ०, ब०ज० ॥