________________
२४६
तस्वार्थवृत्ती
[ ७१२२
तादिकं यत् पुनः पुनर्भुज्यते स उपभोगः । उपभोगपरिभोगपरिमाणते नियतकालसम्भवेऽपि मद्यं मांसं मधु च सर्दष परिहरणीयं वसघातनिवृत्तचित्तेन पुंखा | केतकि निम्चकुसुमाक मूलक सर्वपुष्पानन्तकायिक छिद्रशा कनाली नलादिकं जन्तुयोनिस्थानं तदपि यावज्जीव भीमवंशक बहुगुणायत महाराज
'अन्पफलबहुविघातान्मूलकमार्द्राणि
शृङ्गवेराणि ।
नवनीतनिम्बकुसुमं कैतकमित्येवमवहेयम् ॥" [ रत्नक० ३।३९ ] अथोपभोग विचारः - यानवाह्नभूपवसनादिकमेतावन्मात्रमेव ममेष्टमन्यदनिष्टमिति ज्ञात्या अनिष्टपरिहारः कालमर्यादा याञ्जीवं वा कर्तव्यः ।
संयमविराश्रयम् अति भोजनार्थ गच्छति यः सोऽतिथिः । अथवा न विद्यते तिथिः १० प्रतिपद्वितीयतृतीयादिका यस्य सः अतिथिः अनियतकाटभिक्षागमन इत्यर्थः । अतिथये समीचीनो विभागः निजभोजनाद् विशिष्टभोजनप्रदानमतिथिसंविभागः । स चतुर्विधा भवति - भिक्षादानम् उपकरणवितरणमपि वविआणनमा वासप्रदानमिति । यो मोक्षार्थं चतः संयमतत्परः शुद्धच भवति तस्मं निर्मलेन चेतसा अनवद्या भिक्षा दातव्या, धर्मोपकरणानि च पिच्छपुस्तकपट्टकमण्डल्या' (ल्वा) दीनि रत्नत्रयवद्ध कानि प्रदेयानि औषधमपिं योग्यमेव देयम् १५ आवासश्च परमधर्मश्रद्धया प्रदातव्यः | अन्न च जिनस्नपनपूजादिकं वक्तव्यम् । एतानि चत्वारि शिक्षात्रतानि भवन्ति । मातृपित्रादिवचनबदपत्यानामणुव्रतानां शिक्षाप्रदायका नि अविनाश कारकाणीत्यर्थः ।
अथ चशन्देन गृहीतम् अपरमपि श्रावकत्रतं प्रतिपादयन् सूत्रमिदमाचष्टे - मारणान्तिकीं सल्लेखनां जोषिता ॥२२॥
२०
निजपरिणामेन पूर्वभवादुपार्जितमायुः इन्द्रियाणि च बलानि च तेषां कारणवशेन योऽसौ विनाशः संक्षयः तन्मरणमुच्यते । "मृडू प्राणत्यागे" [ ] इति वचनात् । मरणमेवान्तः सद्भवावसानं मरणान्तः, मरणान्तः प्रयोजनं यस्याः सल्लेखनायाः सा मारणान्तिकी तां मारणान्तिकीम । सत् शब्दः सम्यगर्थवाचकः । तेनायगर्थेः-सत् सम्यक लेखना कायस्य कपायाणां च कृशीकरणं तनूकरणं सल्लेखना | कायस्थ सल्लेखना श्राह्यसल्लेखना | २५ कषायाणां सल्लेखना अभ्यन्तरा सल्लेखना । क्रमेण कायकरणहापना कषायाच हापना सल्लेखनेत्युच्यते । तां सल्लेखनां जोषिता प्रीत्या सेविता पुमान् अगारी गृही भवति । पूर्वोककारान् मारणान्तिकीं सल्लेखनां जपिता यतिश्च भवति । ननु 'प्रीत्या लेविता!' इति किमर्थमुच्यते ? अर्धविशेषोपपादनार्थम् । कोऽसो अर्थविशेषः ? यः पुमान् सल्लेखनां प्रीत्या सेवते प्रकटं भजते, यस्तु प्रीतावसत्यां भजते स तेषु अनादरः कथ्यते तेन बलात्कारेण ३० सल्लेखना न कार्यते, सन्न्यासस्य प्रीतो सत्यां स्वयमेव सल्लेखनां करोति । तेन सूरिणा जुषी
घातुः प्रयुक्तः । ननु स्वयमेव क्रियमाणायां सल्लेखनायाम् अभिसन्धिपूर्वकं प्राणविसर्जनादात्म१ - मण्डलादी - भा०, ब० ज० १ १ वंभये दुपा- ता० । २ भावावसानं आ०, ३०, प० ।